वांछित मन्त्र चुनें
देवता: कामः ऋषि: अथर्वा छन्द: जगती स्वर: काम सूक्त

च्यु॒ता चे॒यं बृ॑ह॒त्यच्यु॑ता च वि॒द्युद्बि॑भर्ति स्तनयि॒त्नूंश्च॒ सर्वा॑न्। उ॒द्यन्ना॑दि॒त्यो द्रवि॑णेन॒ तेज॑सा नी॒चैः स॒पत्ना॑न्नुदतां मे॒ सह॑स्वान् ॥

मन्त्र उच्चारण
पद पाठ

च्युता । च । इयम् । बृहती ।अच्युता । च । विऽद्युत् । बिभर्ति । स्तनयित्नून् । च । सर्वान् । उत्ऽयन् । आदित्य: । द्रविणेन । तेजसा । नीचै: । सऽपत्नान् । नुदताम् । मे । सहस्वान् ॥२.१५॥

अथर्ववेद » काण्ड:9» सूक्त:2» पर्यायः:0» मन्त्र:15


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

ऐश्वर्य की प्राप्ति का उपदेश।

पदार्थान्वयभाषाः - (इयम्) यह (बृहती) बड़ी (विद्युत्) प्रकाशमान शक्ति [परमेश्वर] (च्युता) गिरे हुए [निर्बल] (च च) और (अच्युता) न गिरे हुए (प्रबल द्रव्यों) को (च) और (सर्वान्) सब (स्तनयित्नून्) शब्द करनेवालों को (बिभर्ति) धारण करता है। (उद्यन्) उदय होता हुआ (सहस्वान्) बलवान् (आदित्यः) प्रकाशमान जगदीश्वर (द्रविणेन) बल से और (तेजसा) तेज से (मे) मेरे (सपत्नान्) वैरियों को (नीचैः) नीचे (नुदताम्) ढकेल देवे ॥१५॥
भावार्थभाषाः - सर्वपोषक, सर्वशक्तिमान्, परमेश्वर के नियम से पुरुषार्थी जन बल और प्रताप बढ़ाकर वैरियों का नाश करते हैं ॥१५॥
टिप्पणी: १५−(च्युता) च्युङ् गतौ-क्त। शेर्लोपः। च्युतानि अधोगतानि। निर्बलानि वस्तूनि (च) (इयम्) प्रत्यक्षा (बृहती) महती (अच्युता) अनधोगतानि। प्रबलानि द्रव्याणि (च) (विद्युत्) विविधं द्योतमाना शक्तिः। परमेश्वरः (बिभर्त्ति) धरति (स्तनयित्नून्) अ० १।१३।—१। गर्जनशीलान् (च) (सर्वान्) (उद्यन्) उदयं गच्छन् (आदित्यः) अ० १।९।१। आदीप्यमानः परमेश्वरः (द्रविणेन) बलेन-निघ० २।९। (तेजसा) प्रतापेन (नीचैः) (सपत्नान्) (नुदताम्) प्रेरयतु (मे) मम (सहस्वान्) बलवान् ॥