वांछित मन्त्र चुनें
देवता: कामः ऋषि: अथर्वा छन्द: त्रिष्टुप् स्वर: काम सूक्त

ज॒हि त्वं का॑म॒ मम॒ ये स॒पत्ना॑ अ॒न्धा तमां॒स्यव॑ पादयैनान्। निरि॑न्द्रिया अर॒साः स॑न्तु॒ सर्वे॒ मा ते जी॑विषुः कत॒मच्च॒नाहः॑ ॥

मन्त्र उच्चारण
पद पाठ

जहि । त्वम् । काम । मम । ये । सऽपत्ना: । अन्धा । तमांसि । अव । पादय । एनान् । नि:ऽइन्द्रिया: । अरसा: । सन्तु । सर्वे । मा । ते । जीविषु: । कतमत् । चन । अह: ॥२.१०॥

अथर्ववेद » काण्ड:9» सूक्त:2» पर्यायः:0» मन्त्र:10


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

ऐश्वर्य की प्राप्ति का उपदेश।

पदार्थान्वयभाषाः - (काम) हे कमनीय [परमेश्वर !] (त्वम्) तू (मम) मेरे (ये) जो (सपत्नाः) शत्रु हैं, (एनान्) उनको (जहि) नाश करदे और (अन्धा) बड़े भारी (तमांसि) अन्धकारों में (अव पादय) गिरा दे। (सर्वे ते) वे सब (निरिन्द्रियाः) निर्धन और (अरसाः) निर्वीर्य (सन्तु) हो जावें, और (कतमत् चन) कुछ भी (अहः) दिन (मा जीविषुः) न जीवें ॥१०॥
भावार्थभाषाः - मनुष्य परमेश्वर की प्रार्थना उपासना से आत्मिक बल बढ़ाकर शत्रुओं का सर्वथा नाश करें ॥१०॥
टिप्पणी: १०−(जहि) नाशय (अन्धा) अन्ध दृष्टिनाशे-अच्। निबिडानि (तमांसि) अन्धकारान् (अव पादय) अधो गमय (एनान्) शत्रून् (निरिन्द्रियाः) इन्द्रियं धनम्-निघ० २।१०। निर्धनाः (अरसाः) निर्वीर्याः (ते) सपत्नाः (मा जीविषुः) मा प्राणान् धारयन्तु (कतमत् चन) किमपि (अहः) दिनम्। अन्यद् गतम् ॥