वांछित मन्त्र चुनें

इन्द्रं॑ मि॒त्रं वरु॑णम॒ग्निमा॑हु॒रथो॑ दि॒व्यः स सु॑प॒र्णो ग॒रुत्मा॑न्। ए॒कं सद्विप्रा॑ बहु॒धा व॑दन्त्य॒ग्निं य॒मं मा॑तरिश्वानमाहुः ॥

मन्त्र उच्चारण
पद पाठ

इन्द्रम् । मित्रम् । वरुणम् । अग्निम् । आहु: । अथो इति । दिव्य: । स: । सुऽपर्ण: । गरुत्मान् । एकम् । सत् । विप्रा: । बहुऽधा । वदन्ति । अग्निम् । यमम् । मातरिश्वानम् । आहु: ॥१५.२८॥

अथर्ववेद » काण्ड:9» सूक्त:10» पर्यायः:0» मन्त्र:28


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

जीवात्मा और परमात्मा के लक्षणों का उपदेश।

पदार्थान्वयभाषाः - (अग्निम्) अग्नि [सर्वव्यापक परमेश्वर] को (इन्द्रम्) इन्द्र [बड़े ऐश्वर्यवाला] (मित्रम्) मित्र, (वरुणम्) वरुण [श्रेष्ठ] (आहुः) वे [तत्त्वज्ञानी] कहते हैं, (अथो) और (सः) वह (दिव्यः) प्रकाशमय (सुपर्णः) सुन्दर पालन सामर्थ्यवाला (गरुत्मान्) स्तुतिवाला [गुरु आत्मा महान् आत्मा] है (विप्राः) बुद्धिमान् लोग (एकम्) एक (सत्) सत्तावाले [ब्रह्म] को (बहुधा) बहुत प्रकारों से (वदन्ति) कहते हैं, (अग्निम्) उसी अग्नि [सर्वव्यापक परमात्मा] को (यमम्) नियन्ता और (मातरिश्वानम्) आकाश में श्वास लेता हुआ [अर्थात् आकाश में व्यापक] (आहुः) वे बताते हैं ॥२८॥
भावार्थभाषाः - विद्वान् लोग परमात्मा के अनेक नामों से उसके गुण कर्म स्वभाव को जानकर और उसकी उपासना करके संसार में उन्नति करें ॥२८॥ यह मन्त्र ऋग्वेद में है−१।१६४।४६। और निरुक्त ७।—१८ ॥ इति पञ्चमोऽनुवाकः ॥ इत्येकविंशः प्रपाठकः ॥ इति नवमं काण्डम् ॥ इति श्रीमद्राजाधिराजप्रथितमहागुणमहिमश्रीसयाजीरावगायकवाड़ाधिष्ठितबड़ोदेपुरीगतश्रावणमासपरीक्षायाम् ऋक्सामाथर्ववेदभाष्येषु लब्धदक्षिणेन श्रीपण्डितक्षेमकरणदासत्रिवेदिना कृते अथर्ववेदभाष्ये नवमं काण्डं समाप्तम् ॥
टिप्पणी: २८−(इन्द्रम्) परमैश्वर्यवन्तं परमात्मानम् (मित्रम्) स्नेहशालिनम् (वरुणम्) श्रेष्ठम् (अग्निम्) सर्वव्यापकम् (आहुः) कथयन्ति तत्त्वज्ञाः (अथो) अपि च (दिव्यः) दिवि प्रकाशे भवः (सः) (सुपर्णः) अ० १।२४।१। शोभनपालनः (गरुत्मान्) मृग्रोरुतिः। उ० १।९४। गॄ शब्दे स्तुतौ च−उति, मतुप्। गृणातिरर्चतिकर्मा-निघ० ३।१४। गृत्स इति मेधाविनाम गृणातेः स्तुतिकर्मणः-निरु० ९।५। गरुत्मान् गरणवान् गुर्वात्मा महात्मेति वा-निरु० ७।१८। स्तुतिमान्। महात्मा (एकम्) अद्वितीयम् (सत्) सत्ताविशिष्टम्। विद्यमानं ब्रह्म (विप्राः) मेधाविनः (बहुधा) अनेकप्रकारेण (वदन्ति) (अग्निम्) सर्वव्यापकं परमात्मानम् (यमम्) नियन्तारम् (मातरिश्वानम्) अ० ५।१०।८। मातरि अन्तरिक्षे श्वसन्तं चेष्टमानम् (आहुः) कथयन्ति ॥