वांछित मन्त्र चुनें

वि॒राड्वाग्वि॒राट्पृ॑थि॒वी वि॒राड॒न्तरि॑क्षं वि॒राट्प्र॒जाप॑तिः। वि॒राण्मृ॒त्युः सा॒ध्याना॑मधिरा॒जो ब॑भूव॒ तस्य॑ भू॒तं भव्यं॒ वशे॒ स मे॑ भू॒तं भव्यं॒ वशे॑ कृणोतु ॥

मन्त्र उच्चारण
पद पाठ

विऽराट् । वाक् । विऽराट् । पृथिवी । विऽराट् । अन्तरिक्षम् । विऽराट् । प्रजाऽपति: । विऽराट् । मृत्यु: । साध्यानाम् । अधिऽराज: । बभूव । तस्य । भूतम् । भव्यम् । वशे । स: । मे । भूतम् । भव्यम् । वशे । कृणोतु॥१५.२४॥

अथर्ववेद » काण्ड:9» सूक्त:10» पर्यायः:0» मन्त्र:24


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

जीवात्मा और परमात्मा के लक्षणों का उपदेश।

पदार्थान्वयभाषाः - (विराट्) विराट् [विविध ऐश्वर्यवाला परमात्मा] (वाक्) वाक् [विद्यास्वरूप], (विराट्) विराट् (पृथिवी) पृथिवी [पृथिवीसमान फैला हुआ], (विराट्) विराट् (अन्तरिक्षम्) अन्तरिक्ष [आकाशतुल्य व्यापक], (विराट्) विराट् (प्रजापतिः) प्रजापालक [सूर्यसमान है], (विराट्) विराट् [परमेश्वर], (मृत्युः) दुष्टों का मृत्यु और (साध्यानाम्) परोपकार साधनेवाले [साधु पुरुषों] का (अधिराजः) राजाधिराज (बभूव) हुआ है, (तस्य) उस [परमेश्वर] के (वशे) वश में (भूतम्) अतीतकाल और (भविष्यम्) भविष्यत् काल है (सः) वह (भूतम्) अतीतकाल और (भव्यम्) भविष्यत् काल को (मे) मेरे (वशे) वश में (कृणोतु) करे ॥२४॥
भावार्थभाषाः - सर्वशासक परमात्मा के ज्ञानपूर्वक सब मनुष्य भूतकाल के ज्ञान से दूरदर्शी होकर भविष्यत् का सुधार करें ॥२४॥ (विराट्) के लिये मिलान करें-अथर्व काण्ड ८ सूक्त १० ॥
टिप्पणी: २४−(विराट्) अ० ८।९।१। राजृ दीप्तौ ऐश्वर्ये च−क्विप्। विविधैश्वर्यवान् परमात्मा (वाक्) विद्यारूपः (विराट्) (पृथिवी) पृथिवीवद् विस्तृतः (विराट्) (अन्तरिक्षम्) आकाशवद् व्यापकः (विराट्) (प्रजापतिः) सूर्यवत् प्रजापालकः (विराट्) (मृत्युः) दुष्टानां मारकः (साध्यानाम्) अ० ७।५।१। परोपकारसाधकानां साधूनाम् (अधिराजः) अधिपतिः (बभूव) (तस्य) परमेश्वरस्य (भूतम्) अतीतकालः (भव्यम्) भविष्यत्कालः (वशे) अधीनत्वे (सः) (मे) मम (भूतम्) (भव्यम्) (वशे) (कृणोतु) करोतु ॥