वांछित मन्त्र चुनें

न वि जा॑नामि॒ यदि॑वे॒दमस्मि॑ नि॒ण्यः संन॑द्धो॒ मन॑सा चरामि। य॒दा माग॑न्प्रथम॒जा ऋ॒तस्यादिद्वा॒चो अ॑श्नुवे भा॒गम॒स्याः ॥

मन्त्र उच्चारण
पद पाठ

न । वि । जानामि । यत्ऽइव । इदम् । अस्मि । निण्य: । सम्ऽनध्द: । मनसा । चरामि । यदा । मा । आऽअगन् । प्रथमऽजा: । ऋतस्य । आत् । इत् । वाच: । अश्नुवे । भागम् । अस्या: ॥१५.१५॥

अथर्ववेद » काण्ड:9» सूक्त:10» पर्यायः:0» मन्त्र:15


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

जीवात्मा और परमात्मा के लक्षणों का उपदेश।

पदार्थान्वयभाषाः - (यत्−इव) जो कुछ ही (इदम्) यह [कार्यरूप शरीर है, वही] (अस्मि) मैं हूँ, (न वि जानामि) मैं कुछ नहीं जानता, (निण्यः) गुप्त और (मनसा) मन से (सन्नद्धः) जकड़ा हुआ मैं (चरामि) विचरता हूँ। (यदा) जब (ऋतस्य) सत्य [स्वरूप परमात्मा] का (प्रथमजाः) प्रथम उत्पन्न [बोध] (मा) मुझको (आ-अगन्) आया है, (आत इत्) तभी (अस्याः) इस (वाचः) वाणी के (भागम्) सेवनीय परब्रह्म को (अश्नुवे) मैं पाता हूँ ॥१५॥
भावार्थभाषाः - अज्ञानी पुरुष मूढबुद्धि होकर शरीर आत्मा को अलग-अलग नहीं जानता। जब वह वेद द्वारा विद्या प्राप्त करता है तब शरीर, आत्मा और परमात्मा को जान लेता है ॥१५॥ यह मन्त्र ऋग्वेद में है−१।१६४।३७। और निरुक्त−७।३। और १४।२२। में भी है ॥
टिप्पणी: १५−(न) निषेधे (वि) विशेषेण (जानामि) वेद्मि (यत्−इव) यत् किञ्चिदेव (इदम्) दृश्यमानं शरीरम् (अस्मि) अविवेकि जनोऽहम् (निण्यः) अघ्न्यादयश्च। उ० ४।११२। निर्+णीञ् प्रापणे-यक्, टिलोपो रेफलोपश्च। निण्यं निर्णीतान्तर्हितनाम-निघ० ३।२५। अन्तर्हितः। मूढचित्तः (सन्नद्धः) सम्यग् बद्धो वेष्टितः (मनसा) अन्तःकरणेन (चरामि) गच्छामि (यदा) यस्मिन् काले (मा) माम् (आ-अनन्) अ० ६।११६।२। गमेर्लुङ्। आगमत् (प्रथमजाः) अ० ६।१२२।१। जनेर्विट्। प्रथमोत्पन्नो बोधः (ऋतस्य) सत्यस्वरूपस्य परमात्मनः (आत्) अनन्तरम्। अव्यवधानेन (इत्) एव (वाचः) वाण्याः (अश्नुवे) प्राप्नोम (भागम्) भजनीयं पदं परब्रह्म (अस्याः) वेदविख्यातायाः ॥