अप॑श्यं गो॒पाम॑नि॒पद्य॑मान॒मा च॒ परा॑ च प॒थिभि॒श्चर॑न्तम्। स स॒ध्रीचीः॒ स विषू॑ची॒र्वसा॑न॒ आ व॑रीवर्ति॒ भुव॑नेष्व॒न्तः ॥
पद पाठ
अपश्यम् । गोपाम् । अनिऽपद्यमानाम् । आ । च । परा । च । पथिऽभि: । चरन्तम् । स: । सध्रीची: । स: । विषूची: । वसान: । आ । वरीवर्ति । भुवनेषु । अन्त: ॥१५.११॥
अथर्ववेद » काण्ड:9» सूक्त:10» पर्यायः:0» मन्त्र:11
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
जीवात्मा और परमात्मा के लक्षणों का उपदेश।
पदार्थान्वयभाषाः - (गोपाम्) भूमि वा वाणी के रक्षक, (अनिपद्यमानम्) न गिरनेवाले [अचल], (पथिभिः) ज्ञानमार्गों से (आ चरन्तम्) समीप प्राप्त होते हुए (च) और (परा) दूर प्राप्त होते हुए (च) भी [परमेश्वर] को (अपश्यम्) मैंने देखा है। (सः) वह [परमेश्वर] (सध्रीचीः) साथ मिली हुई [दिशाओं] को और (सः) वही (विषूचीः) नाना प्रकार से वर्तमान [प्रजाओं] को (वसानः) ढकता हुआ (भुवनेषु अन्तः) लोकों के भीतर (आ) अच्छे प्रकार (वरीवर्ति) निरन्तर वर्तमान है ॥११॥
भावार्थभाषाः - योगी जन सर्वव्यापी अन्तर्यामी परमेश्वर को सब स्थानों में बाहिर और भीतर साक्षात् करके सदा धर्म में लगे रहते हैं ॥११॥ यह मन्त्र ऋग्वेद में है−१।१६४।३१। और १०।१७७।३। तथा यजु० ३७।१७। तथा निरुक्त १४।३ ॥
टिप्पणी: ११−(अपश्यम्) अहं दृष्टवान् (गोपाम्) अ० ३।८।४। गां भूमिं वाचं वा पातीति तं परमेश्वरम् (अनिपद्यमानम्) पद गतौ-शानच्। नाधः पतन्तम्। अचलम् (आ चरन्तम्) समीपे प्राप्नुवन्तम् (च) (परा) पराचरन्तम्। दूरे प्राप्नुवन्तम् (च) (पथिभिः) ज्ञानमार्गैः (सः) परमेश्वरः (सध्रीचीः) अ० ६।८८।३। सहाञ्चनाः सह वर्तमाना दिशः (सः) (विषूचीः) अ० १।१९।१। विष्वञ्चनाः। नाना वर्तमानाः प्रजाः (वसानः) अ० ४।८।३। आच्छादयन् (आ) समन्तात् (वरीवर्ति) रीगृदुपधस्य च। पा० ७।४।९०। वृतु वर्तने-यङ्लुक्, रीक्। निरन्तरं वर्तते (भुवनेषु) लोकेषु (अन्तः) मध्ये ॥
