वांछित मन्त्र चुनें

यामापी॑नामुप॒सीद॒न्त्यापः॑ शाक्व॒रा वृ॑ष॒भा ये स्व॒राजः॑। ते व॑र्षन्ति॒ ते व॑र्षयन्ति त॒द्विदे॒ काम॒मूर्ज॒मापः॑ ॥

मन्त्र उच्चारण
पद पाठ

याम् । आऽपीनाम् । उपऽसीदन्ति । आप: । शाक्वरा: । कृषभा: । ये । स्वऽराज: । ते । वर्षन्ति । ते । वर्षयन्ति । तत्ऽविदे । कामम् । ऊर्जम् । आप: ॥१.९॥

अथर्ववेद » काण्ड:9» सूक्त:1» पर्यायः:0» मन्त्र:9


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

ब्रह्म की प्राप्ति का उपदेश।

पदार्थान्वयभाषाः - (ये) जो (शाक्वराः) शक्तिमती [वेदवाणी] जाननेवाले, (वृषभाः) पराक्रमी, (स्वराजः) स्वराजा, (आपः) सर्वविद्याव्यापक विद्वान् लोग (याम्) जिस (आपीनाम्) सब प्रकार बढ़ी हुई [ब्रह्मविद्या] को (उपसीदन्ति) आदर से प्राप्त होते हैं, (ते) वे (वर्षन्ति) समर्थ होते हैं, (ते) वे (आपः) महाविद्वान् (तद्विदे) उस [ब्रह्मविद्या] के जाननेवाले के लिये (कामम्) अभीष्ट विषय और (ऊर्जम्) पराक्रम को (वर्षयन्ति) बरसाते हैं ॥९॥
भावार्थभाषाः - जो पुरुष वेदवाणी जानकर ईश्वर की आज्ञा में चलते हैं, वे दूसरों को वेदज्ञ बनाकर समर्थ करते हैं ॥९॥
टिप्पणी: ९−(याम्) मधुकशाम् (आपीनाम्) प्रवृद्धाम् (उपसीदन्ति) सत्कारेण प्राप्नुवन्ति (आपः) अत्र पुंल्लिङ्गः। सर्वविद्याव्यापिनो विपश्चितः-दयानन्दभाष्ये-यजु० ६।—१७। (शाक्कराः) स्नामदिपद्यर्तिपॄशकिभ्यो वनिप्। उ० ४।११३। शक्लृ शक्तौ-वनिप्। वनो र च। पा० ४।१।७। ङीप्, नस्य रः। शक्कर्य ऋचः शक्नोतेः-निरु० १।८। तदधीते तद्वेद। पा० ४।२।५९। शक्वरी अण्। शक्करीं शक्तिमतीं वेदवाणीं जानन्ति ये ते (वृषभाः) पराक्रमिणः (ये) (स्वराजः) स्वराजन्−टच्। स्वयं शासकाः (ते) विद्वांसः (वर्षन्ति) वृषु सेचने ऐश्वर्ये च। ईशते (ते) (वर्षयन्ति) सिञ्चन्ति। वर्द्धयन्ति (तद्विदे) यस्तां वेदवाणीं वेत्ति तस्मै (कामम्) अभीष्टविषयम् (ऊर्जम्) पराक्रमम् (आपः) विद्वांसः ॥