कस्तं प्र वे॑द॒ क उ॒ तं चि॑केत॒ यो अ॑स्या हृ॒दः क॒लशः॑ सोम॒धानो॒ अक्षि॑तः। ब्र॒ह्मा सु॑मे॒धाः सो अ॑स्मिन्मदेत ॥
पद पाठ
क: । तम् । प्र । वेद । क: । ऊं इति तम् । चिकेत । य: । अस्या: । हृद: । कलश: । सोमऽधान: । अक्षित: । ब्रह्मा । सुऽमेधा: । स: । अस्मिन् । मदेत ॥१.६॥
अथर्ववेद » काण्ड:9» सूक्त:1» पर्यायः:0» मन्त्र:6
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
ब्रह्म की प्राप्ति का उपदेश।
पदार्थान्वयभाषाः - (कः) कौन पुरुष (तम्) उस [परमेश्वर] को (प्र वेद) अच्छे प्रकार जानता है, (कः उ) किस ने ही (तम्) उसको (चिकेत) समझा है, (यः) जो [परमेश्वर] (अस्याः) इस [वेदवाणी] के (हृदः) हृदय का (कलशः) कलश (अक्षितः) अक्षय (सोमधानः) अमृत का पात्र है। (सः) वह (सुमेधाः) सुबुद्धि (ब्रह्मा) ब्रह्मा [ब्रह्मज्ञानी, वेदवेत्ता] (अस्मिन्) इस [परमेश्वर] में (मदेत) आनन्द पावे ॥६॥
भावार्थभाषाः - चतुर ब्रह्मज्ञानी पुरुष परमेश्वर और उसकी वेदवाणी का तत्त्व जानकर प्रसन्न होते हैं ॥६॥
टिप्पणी: ६−(कः) विद्वान् (तम्) परमेश्वरम् (वेद) वेत्ति (उ) एव (तम्) (चिकेत) कित ज्ञाने-लिट्। ज्ञातवान् (यः) परमेश्वरः (अस्याः) मधुकशायाः (हृदः) हृदयस्य (कलशः) अ० ३।१२।७। घटः (सोमधानः) अमृताधारः (अक्षितः) अक्षीणः (ब्रह्मा) चतुर्वेदज्ञः (सुमेधाः) अ० ५।११।११। सुबुद्धिः (सः) (अस्मिन्) परमेश्वरे (मदेत) हर्षेत् ॥
