यद्वी॒ध्रे स्त॒नय॑ति प्र॒जाप॑तिरे॒व तत्प्र॒जाभ्यः॑ प्रा॒दुर्भ॑वति। तस्मा॑त्प्राचीनोपवी॒तस्ति॑ष्ठे॒ प्रजा॑प॒तेऽनु॑ मा बुध्य॒स्वेति॑। अन्वे॑नं प्र॒जा अनु॑ प्र॒जाप॑तिर्बुध्यते॒ य ए॒वं वेद॑ ॥
यत् । वीध्रे । स्तनयति । प्रजाऽपति: । एव । तत् । प्रऽजाभ्य: । प्रादु: । भवति । तस्मात् । प्राचीनऽउपवीत: । तिष्ठे । प्रजाऽपते । अनु । मा । बुध्यस्य । इति । अनु । एनम् । प्रऽजा: । अनु । प्रजाऽपति: । बुध्यते । य: । एवम् । वेद ॥१.२४॥
पण्डित क्षेमकरणदास त्रिवेदी
ब्रह्म की प्राप्ति का उपदेश।
