म॒हत्पयो॑ वि॒श्वरू॑पमस्याः समु॒द्रस्य॑ त्वो॒त रेत॑ आहुः। यत॒ ऐति॑ मधुक॒शा ररा॑णा॒ तत्प्रा॒णस्तद॒मृतं॒ निवि॑ष्टम् ॥
पद पाठ
महत् । पय: । विश्वऽरूपम् । अस्या: । समुद्रस्य । त्वा । उत । रेत: । आहु: । यत: । आऽएति । मधुऽकशा। रराणा । तत् । प्राण: । तत् । अमृतम् । निऽविष्टम् ॥१.२॥
अथर्ववेद » काण्ड:9» सूक्त:1» पर्यायः:0» मन्त्र:2
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
ब्रह्म की प्राप्ति का उपदेश।
पदार्थान्वयभाषाः - [हे मधुकशा !] (त्वा) तुझको (अस्याः) इस [पृथिवी] का (विश्वरूपम्) सब प्रकार रूपवाला (महत्) बड़ा (पयः) बल [वा अन्न] (उत) और (समुद्रस्य) सूर्य का (रेतः) बीज (आहुः) वे [विद्वान्] बताते हैं। (यतः) जिस [ब्रह्म] से (रराणा) दानशील (मधुकशा) मधुकशा [वेदवाणी] (ऐति) आती है, (तत्) उस [ब्रह्म] में (प्राणः) प्राण [जीवन], (तत्) उस में (अमृतम्) अमृत [मोक्षसुख] (निविष्टम्) निरन्तर भरा है ॥२॥
भावार्थभाषाः - ईश्वर के ज्ञान से पृथिवी, सूर्य आदि लोक उत्पन्न होकर स्थित हैं और उसी के द्वारा सब प्राणी प्रयत्नपूर्वक जीवन करके आनन्द पाते हैं ॥२॥
टिप्पणी: २−(महत्) बृहत् (पयः) पय गतौ-असुन्। पयः पिबतेर्वा प्यायतेर्वा-निरु० २।५। बलम्। अन्नम्-निघ० २।७। (विश्वरूपम्) सर्वविधरूपयुक्तम् (अस्याः) पृथिव्याः (समुद्रस्य) अ० १।१३।३। समुद्र आदित्यः, समुद्र आत्मा-निरु० १४।१६। सूर्यलोकस्य (त्वा) त्वां मधुकशाम् (उत) अपि च (रेतः) बीजम् (आहुः) कथयन्ति विद्वांसः (यतः) यस्माद् ब्रह्मणः (ऐति) आगच्छति (मधुकशा) म० १। मधुविद्या (रराणा) अ० ५।२७।११। दानशीला (तत्) तस्मिन् ब्रह्मणि (प्राणः) जीवनसामर्थ्यम् (तत्) तत्र (अमृतम्) मोक्षसुखम् (निविष्टम्) निरन्तरप्रविष्टम् ॥
