वांछित मन्त्र चुनें
135 बार पढ़ा गया

यां प्रच्यु॑ता॒मनु॑ य॒ज्ञाः प्र॒च्यव॑न्त उप॒तिष्ठ॑न्त उप॒तिष्ठ॑मानाम्। यस्या॑ व्र॒ते प्र॑स॒वे य॒क्षमेज॑ति॒ सा वि॒राडृ॑षयः पर॒मे व्यो॑मन् ॥

मन्त्र उच्चारण
पद पाठ

याम् । प्रऽच्युताम् । अनु । यज्ञा: । प्रऽच्यवन्ते । उपऽतिष्ठन्ते । उपऽतिष्ठमानाम् । यस्या: । व्रते । प्रऽसवे । यक्षम् । एजति । सा । विऽराट् । ऋषय: । परमे । विऽओमन् ॥९.८॥

अथर्ववेद » काण्ड:8» सूक्त:9» पर्यायः:0» मन्त्र:8


पण्डित क्षेमकरणदास त्रिवेदी

ब्रह्म विद्या का उपदेश।

पदार्थान्वयभाषाः - (याम् प्रच्युताम् अनु) जिस आगे बढ़ी हुई के पीछे (यज्ञाः) यज्ञ [संयोग-वियोग व्यवहार, सृष्टिसमय में] (प्रच्यवन्ते) आगे बढ़ते हैं, (उपतिष्ठमानाम्) ठहरती हुई के [पीछे, प्रलय में] (उपतिष्ठन्ते) ठहर जाते हैं। (यस्याः) जिस [शक्ति] के (व्रते) नियम और (प्रसवे) बड़े ऐश्वर्य में (यक्षम्) संगतियोग्य जगत् (एजति) चेष्टा करता है, (ऋषयः) हे ऋषि लोगो ! (सा) वह (विराट्) विविधेश्वरी (परमे) सर्वोत्कृष्ट (व्योमन्) विविध रक्षक परमेश्वर में है ॥८॥
भावार्थभाषाः - जो परमेश्वरशक्ति जगत् की उत्पति स्थिति और प्रलय का कारण है, उसका ऋषि लोग ध्यान करते हैं ॥८॥
टिप्पणी: ८−(याम्) विराजम् (प्रच्युताम्) अग्रेगताम् (अनु) अनुसृत्य (यज्ञाः) संयोगवियोगव्यवहाराः (प्रच्यवन्ते) प्रकर्षेण गच्छन्ति (उपतिष्ठन्ते) स्थितिं प्राप्नुवन्ति (उपतिष्ठमानाम्) स्थितिं गच्छन्तीम्, अनु इति शेषः (यस्याः) विराजः (व्रते) नियमे (प्रसवे) प्रकृष्टैश्वर्ये (यक्षम्) वृतॄवदिवचि०। उ० ३।६२। यज संगतिकरणे-स प्रत्ययः। संगन्तव्यं जगत् (एजति) चेष्टते (सा) (विराट्) म० —१। महेश्वरी (ऋषयः) हे साक्षात्कृतधर्म्माणः (परमे) परमोत्कृष्टे (व्योमन्) अ० ५।१७।६। वि+अव-रक्षणे मनिन्। विविधरक्षके परमात्मनि ॥