वांछित मन्त्र चुनें

षट्त्वा॑ पृच्छाम॒ ऋष॑यः कश्यपे॒मे त्वं हि यु॒क्तं यु॑यु॒क्षे योग्यं॑ च। वि॒राज॑माहु॒र्ब्रह्म॑णः पि॒तरं॒ तां नो॒ वि धे॑हि यति॒धा सखि॑भ्यः ॥

मन्त्र उच्चारण
पद पाठ

षट् । त्वा । पृच्छाम । ऋषय: । कश्यप । इमे । त्वम् । हि । युक्तम् । युयुक्षे । योग्यम् । च । विऽराजम् । आहु: । ब्रह्मण: । पितरम् । ताम् । न: । वि । धेहि । यतिऽधा । सखिऽभ्य: ॥९.७॥

अथर्ववेद » काण्ड:8» सूक्त:9» पर्यायः:0» मन्त्र:7


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

ब्रह्म विद्या का उपदेश।

पदार्थान्वयभाषाः - (कश्यप) हे दृष्टिमान् विद्वन् ! (त्वम्) तू ने (हि) ही (युक्तम्) ध्यान किये हुए (च) और (योग्यम्) ध्यान योग्य [पदार्थ] को (युयुक्षे) ध्यान किया है, (त्वा) तुझ से (पृच्छाम) हम पूँछें, (इमे) ये (षट्) छह (ऋषयः) ऋषि अर्थात् इन्द्रियाँ [त्वचा, नेत्र, कान, जिह्वा, नाक और मन] (ब्रह्मणः) ब्रह्म की (विराजम्) विविधेश्वरी शक्ति को (पितरम्=अपितरम्) निश्चय करके (आहुः) बताते हैं, (ताम्) उसे (सखिभ्यः नः) हम मित्रों को, (यतिधा) जितने प्रकार हो, (वि धेहि) विधान कर ॥७॥
भावार्थभाषाः - भूत भविष्यत् के विचारवान् विद्वान् आचार्य और शिष्य इन्द्रिय आदि पदार्थों की रचना देखकर, परब्रह्म की शक्ति विचार कर सब पदार्थों से यथावत् उपकार लेवें ॥७॥
टिप्पणी: ७−(षट्) षट्संख्याकाः (त्वा) त्वाम् (पृच्छाम)) प्रश्नेन निश्चिनवाम (ऋषयः) अ० ४।११।९। सप्त ऋषयः षडिन्द्रियाणि विद्या सप्तमी-निरु० १२।३७। इति वचनात्, त्वक्चक्षुःश्रवणरसनाघ्राणमनांसीन्द्रियाणि (कश्यप) अ० १।१४।४। पश्यक विद्वन् (त्वम्) (हि) अवश्यम् (युक्तम्) समाहितम् (युयुक्षे) युज समाधौ-लिट्। त्वं समाहितवानसि (योग्यम्) ध्यातव्यम् (च) (विराजम्) म० १। महेश्वरीं शक्तिम् (आहुः) कथयन्ति (ब्रह्मणः) परमेश्वरस्य (पितरम्) अल्लोपः। अपितरम्। निश्चयेन (ताम्) विराजम् (नः) अस्मभ्यम् (वि धेहि) विधानेन कथय (यतिधा) यत्प्रकारेण (सखिभ्यः) मित्रेभ्यः ॥