वांछित मन्त्र चुनें

इ॒त्थं श्रेयो॒ मन्य॑माने॒दमाग॑मं यु॒ष्माकं॑ स॒ख्ये अ॒हम॑स्मि॒ शेवा॑। स॑मा॒नज॑न्मा॒ क्रतु॑रस्ति॒ वः शि॒वः स वः॒ सर्वाः॒ सं च॑रति प्रजा॒नन् ॥

मन्त्र उच्चारण
पद पाठ

इत्थम् । श्रेय: । मन्यमाना: । इदम् । आ । अगमम् । युष्माकम् । सख्ये । अहम् । अस्मि । शेवा । समानऽजन्मा । क्रतु: । अस्ति । व: । शिव: । स: । व: । सर्वा: । सम् । चरति । प्रऽजानन् ॥९.२२॥

अथर्ववेद » काण्ड:8» सूक्त:9» पर्यायः:0» मन्त्र:22


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

ब्रह्म विद्या का उपदेश।

पदार्थान्वयभाषाः - [हे मनुष्यो !] (इत्थम्) इस प्रकार (श्रेयः) आनन्द (मन्यमाना) मनाती हुई (अहम्) मैं [विराट्] (इदम्) इस [चराचर जगत्] में (आ अगमम्) आयी हूँ, और (युष्माकम्) तुम्हारी (सख्ये) मित्रता में (शेवा) सुख देनेवाली (अस्मि) हूँ। (समानजन्मा) [कर्मफल के साथ] एक जन्मवाला (वः क्रतुः) तुम्हारा बोध (शिवः) मङ्गलकारी (अस्ति) है, (सः) वह [बोध] (वः) तुम्हारी (सर्वाः) सब [आशायें] (प्रजानन्) समझता हुआ (संचरति) संचार करता है ॥२२॥
भावार्थभाषाः - मनुष्यों के कल्याण के लिये ईश्वरशक्ति प्रकट होकर उन्हें संचित कर्म अनुसार बुद्धि देकर आगे के लिये पुरुषार्थ का उपदेश देती है ॥२२॥
टिप्पणी: २२−(इत्थम्) एवम् (श्रेयः) प्रशस्य-ईयसुन्। कल्याणम् (मन्यमाना) जानन्ती (इदम्) चराचरं जगत् (आ अगमम्) आगतवती (युष्माकम्) (सख्ये) मित्रभावे (अहम्) विराट् (अस्मि) (शेवा) इण्शीभ्यां वन्। उ० १।१५२। शीङ् शयने-वन्। शेव इति सुखनाम शिष्यतेर्वकारो नामकरणोऽन्तस्थान्तरोपलिङ्गी विभाषितगुणः शिवमित्यप्यस्य भवति-निरु० १०।१७। सुखदा (समानजन्मा) एकोत्पत्तियुक्तः कर्मफलैः सह (क्रतुः) प्रज्ञा-निघ० ३।९ (अस्ति) (वः) युष्माकम् (शिवः) शङ्करः (सः) क्रतुः (वः) युष्माकम् (सर्वाः) अखिला आशा दीर्घाकाङ्क्षाः (संचरति) (प्रजानम्) प्रबोधन् ॥