देवता: परसेनाहननम्, इन्द्रः, वनस्पतिः
ऋषि: भृग्वङ्गिराः
छन्द: उपरिष्टाद्बृहती
स्वर: शत्रुपराजय सूक्त
94 बार पढ़ा गया
अ॒यं लो॒को जाल॑मासीच्छ॒क्रस्य॑ मह॒तो म॒हान्। तेना॒हमि॑न्द्रजा॒लेना॒मूंस्तम॑सा॒भि द॑धामि॒ सर्वा॑न् ॥
पद पाठ
अयम् । लोक: । जालम् । आसीत् । शक्रस्य । महत: । महान् । तेन । अहम् । इन्द्रऽजालेन । अमून् । तमसा । अभि । दधामि । सर्वान् ॥८.८॥
अथर्ववेद » काण्ड:8» सूक्त:8» पर्यायः:0» मन्त्र:8
पण्डित क्षेमकरणदास त्रिवेदी
शत्रु के नाश का उपदेश।
पदार्थान्वयभाषाः - (अयम्) यह (महान्) बड़ा (लोकः) लोक (महतः) बड़े (शक्रस्य) शक्तिमान् [सेनापति] का (जालम्) जाल (आसीत्) था। (तेन) उस (इन्द्रजालेन) इन्द्रजाल [बड़े शस्त्र] से (अहम्) मैं (अमून्) उन (सर्वान्) सबको (तमसा) अन्धकार से (अभि दधामि) घेरे लेता हूँ ॥८॥
भावार्थभाषाः - बुद्ध कुशल सेनाध्यक्ष के सहाय से अन्य सेनापति शत्रुओं को इन्द्रजाल ब्रह्मास्त्र आदि महाशस्त्रों से अन्धकार में घेरकर मारें ॥८॥
टिप्पणी: ८−(अयम्) प्रसिद्धः (लोकः) संसारः (जालम्) पाशः (आसीत्) (शक्रस्य) इन्द्रस्य (महतः) (महान्) (तेन) (अहम्) सेनापतिः (इन्द्रजालेन) इन्द्रपाशेन ब्रह्मास्त्रेण (अमून्) शत्रून् (तमसा) अन्धकारेण (अभि दधामि) आच्छादयामि (सर्वान्) समस्तान् ॥
