वांछित मन्त्र चुनें
95 बार पढ़ा गया

बृ॒हत्ते॒ जालं॑ बृह॒त इ॑न्द्र शूर सहस्रा॒र्घस्य॑ श॒तवी॑र्यस्य। तेन॑ श॒तं स॒हस्र॑म॒युतं॒ न्यर्बुदं ज॒घान॑ श॒क्रो दस्यू॑नामभि॒धाय॒ सेन॑या ॥

मन्त्र उच्चारण
पद पाठ

बृहत् । ते । जालम् । बृहत: । इन्द्र । शूर । सहस्रऽअर्घस्य । शतऽवीर्यस्य । तेन । शतम् । सहस्रम् । अयुतम् । निऽअर्बुदम् । जघान । शक्र: । दस्यूनाम् । अभिऽधाय । सेनया ॥८.७॥

अथर्ववेद » काण्ड:8» सूक्त:8» पर्यायः:0» मन्त्र:7


पण्डित क्षेमकरणदास त्रिवेदी

शत्रु के नाश का उपदेश।

पदार्थान्वयभाषाः - (इन्द्र) हे इन्द्र ! [महाप्रतापी !] (शूर) हे शूर ! (बृहतः) बड़े, (सहस्रार्घस्य) सहस्रों से पूजा योग्य, (शतवीर्यस्य) सैकड़ों वीरत्ववाले (ते) तेरे का (बृहत्) बड़ा (जालम्) जाल [फैलाव] है। (तेन) उस [जाल] से (शक्रः) शक्तिमान् [सेनापति] ने (सेनया) [अपनी] सेना से (शतम्) सौ, (सहस्रम्) सहस्र, (अयुतम्) दश सहस्र, (न्यर्बुदम्) अनेक दश कोटि (दस्यूनाम्) डाकुओं को (अभिधाय) घेर कर (जघान) मार डाला ॥७॥
भावार्थभाषाः - जिस प्रकार से शूरवीर पुरुष शत्रुओं को मारकर प्रजापालन करते आये हैं, उसी प्रकार पराक्रमी लोग रक्षा करते रहें ॥७॥
टिप्पणी: ७−(बृहत्) (ते) तव (जालम्) म० ५। विस्तारः (बृहतः) (इन्द्र) परमैश्वर्यवन् सेनापते (शूर) पराक्रमिन् (सहस्रार्घस्य) अर्ह पूजायाम्-घञ् कुत्वम्। सहस्रैः पूजितस्य (शतवीर्यस्य) बहुवीर्योपेतस्य (तेन) जालेन (शतम्) (सहस्रम्) (अयुतम्) दशसहस्रम् (न्यर्बुदम्) अर्व गतौ हिंसायाम् च-उदच् प्रत्ययः, इति रामजसनकोशः। अर्बुदो मेघो भवत्यरणमम्बु तद्दोऽम्बुदोऽम्बुमद्भातीति वाम्बुमद्भवतीति वा, स यथा महान् बहुर्भवति वर्षंस्तवार्बुदम्-निरु० ३।१०। बहुदशकोटिम् (जघान) ममार (शक्रः) शक्तिमान् (दस्यूनाम्) म० ५। चोरादीनाम् (अभिधाय) आच्छाद्य (सेनया) स्वसेनया ॥