देवता: परसेनाहननम्, इन्द्रः, वनस्पतिः
ऋषि: भृग्वङ्गिराः
छन्द: बृहतीपुरस्तात्प्रस्तारपङ्क्तिः
स्वर: शत्रुपराजय सूक्त
136 बार पढ़ा गया
प॑रु॒षान॒मून्प॑रुषा॒ह्वः कृ॑णोतु॒ हन्त्वे॑ना॒न्वध॑को व॒धैः। क्षि॒प्रं श॒र इ॑व भज्यन्तां बृहज्जा॒लेन॒ संदि॑ताः ॥
पद पाठ
परुषान् । अमून् । परुषऽआह्व: । कृणोतु । हन्तु । एनान् । वधक: । वधै: । क्षिप्रम् । शर:ऽइव । भज्यन्ताम् । बृहत्ऽजालेन । सम्ऽदिता: ॥ ८.४॥
अथर्ववेद » काण्ड:8» सूक्त:8» पर्यायः:0» मन्त्र:4
पण्डित क्षेमकरणदास त्रिवेदी
शत्रु के नाश का उपदेश।
पदार्थान्वयभाषाः - (परुषाह्वः) कठोरों को ललकारनेवाला [सेनापति] (अमून्) उन [अपने सैनिकों] को (परुषान्) कठोर स्वभाववाला (कृणोतु) बनावे, (वधकः) मारू [सेनापति] (वधैः) मारू शस्त्रों से (एनान्) इन [शत्रुओं] को (हन्तु) मारे। (बृहज्जालेन) बड़े जाल से (संदिताः) बँधे हुए वे लोग (शर इव) सरकंडे के समान (क्षिप्रम्) शीघ्र (भज्यन्ताम्) टूट जावें ॥४॥
भावार्थभाषाः - सेनापति अपने सैनिकों को उत्साह देकर शत्रुओं को पाश में बाँधकर नष्ट करे ॥४॥
टिप्पणी: ४−(परुषान्) पॄनहिकलिभ्य उषच्। उ० ४।७५। पॄ पालनपूरणयोः-उषच्। कठोरस्वभावान् (अमून्) स्वसैनिकान् (परुषाह्वः) परुष+आङ्+ह्वेञ् स्पर्धायां शब्दे च-क। कठोराणां स्पर्धकः सेनापतिः (कृणोतु) (हन्तु) (वधकः) म० ३। मारकः (वधैः) हननायुधैः (क्षिप्रम्) शीघ्रम् (शरः) तृणभेदः (इव) यथा (भज्यन्ताम्) भिद्यन्ताम् (बृहज्जालेन) महापाशेन (संदिताः) सम् पूर्वो दो बन्धने-क्त। बद्धाः ॥
