135 बार पढ़ा गया
अ॒मून॑श्वत्थ॒ निः शृ॑णीहि॒ खादा॒मून्ख॑दिराजि॒रम्। ता॒जद्भङ्ग॑ इव भज्यन्तां॒ हन्त्वे॑ना॒न्वध॑को व॒धैः ॥
पद पाठ
अमून् । अश्वत्थ । नि: । शृणीहि । खाद । अमून् । खदिर । अजिरम् । ताजद्भङ्ग:ऽइव । भज्यन्ताम् । हन्तु । एनान्। वधक: । वधै: ॥८.३॥
अथर्ववेद » काण्ड:8» सूक्त:8» पर्यायः:0» मन्त्र:3
पण्डित क्षेमकरणदास त्रिवेदी
शत्रु के नाश का उपदेश।
पदार्थान्वयभाषाः - (अश्वत्थ) हे बलवानों में ठहरनेवाले ! [अश्वत्थामा] (अमून्) उन को (निः शृणीहि) कुचल डाल, (खदिर) हे दृढ़ स्वभाववाले [सेनापति !] (अमून्) उनको (अजिरम्) शीघ्र (खाद) खा ले। वे लोग (ताजद्भङ्गः इव) झटपट टूटे हुए सन के समान (भज्यन्ताम्) टूट जावें, (वधकः) मारू सेनापति (वधैः) मारू हथियारों से (एनान्) इनको (हन्तु) मारे ॥३॥
भावार्थभाषाः - वीरसेनापति दृढ़ स्वभाव होकर शत्रुओं का शीघ्र नाश करे ॥३॥
टिप्पणी: ३−(अमून्) शत्रून् (अश्वत्थ) अ० ३।६।१। अश्व+ष्ठा गतिनिवृत्तौ-क। हे अश्वेषु वीरेषु स्थितिस्वभाव। अश्वत्थामन् (निः) निरन्तरम् (शृणीहि) नाशय (अमून्) (खदिर) अ० ३।६।१। खद स्थैर्यहिंसयोः-किरच्। हे स्थिरस्वभाव सेनापते (अजिरम्) अ० ३।४।३। क्षिप्रम्-निघ० २।१५। (ताजद्भङ्गः इव) ताजत् क्षिप्रनाम-निघ० २।१५+भञ्जो आमर्दने-घञ्, कुत्वं च। क्षिप्रभग्नो भङ्गः शणो यथा (भज्यन्ताम्) भिद्यन्ताम् (हन्तु) मारयतु (एनान्) शत्रून् (वधकः) हनो वध च। उ० २।३६। हन्तेः-क्वुन्। हननकर्ता (वधैः) हननायुधैः ॥
