इ॒तो ज॑ये॒तो वि ज॑य॒ सं ज॑य॒ जय॒ स्वाहा॑। इ॒मे ज॑यन्तु॒ परा॒मी ज॑यन्तां॒ स्वाहै॒भ्यो दु॒राहा॒मीभ्यः॑। नी॑ललोहि॒तेना॒मून॒भ्यव॑तनोमि ॥
इत: । जय । इत: । वि । जय । सम् । जय । जय । स्वाहा । इमे । जयन्तु । परा । अमी इति । जयन्ताम् । स्वाहा । एभ्य: । दुराहा । अमीभ्य: । नीलऽलोहितेन । अमून् । अभिऽअवतनोमि ॥८.२४॥
पण्डित क्षेमकरणदास त्रिवेदी
शत्रु के नाश का उपदेश।
