देवता: परसेनाहननम्, इन्द्रः, वनस्पतिः
ऋषि: भृग्वङ्गिराः
छन्द: उपरिष्टाद्बृहती
स्वर: शत्रुपराजय सूक्त
141 बार पढ़ा गया
सं॑वत्स॒रो रथः॑ परिवत्स॒रो र॑थोप॒स्थो वि॒राडी॒षाग्नी र॑थमु॒खम्। इन्द्रः॑ सव्य॒ष्ठाश्च॒न्द्रमाः॒ सार॑थिः ॥
पद पाठ
सम्ऽवत्सर: । रथ: । परिऽवत्सर: । रथऽउपस्थ: । विऽराट् । ईषा । अग्नि: । रथऽमुखम् । इन्द्र: । सव्यऽस्था: । चन्द्रमा: । सारथि: ॥८.२३॥
अथर्ववेद » काण्ड:8» सूक्त:8» पर्यायः:0» मन्त्र:23
पण्डित क्षेमकरणदास त्रिवेदी
शत्रु के नाश का उपदेश।
पदार्थान्वयभाषाः - (संवत्सरः) यथाविधि निवास करनेवाला काल, (रथः) रथ, (परिवत्सरः) सब ओर से निवास करनेवाला अवकाश (रथोपस्थः) रथ की बैठक (विराट्)) विराट् [विविध प्रकाशमान सृष्टि] (ईषा) जुए का दण्डा, (अग्निः) अग्नि (रथमुखम्) रथ का मुख [अग्रभाग]। (इन्द्रः) सूर्य (सव्यष्ठाः) बाईं ओर बैठनेवाला [सारथी], (चन्द्रमाः) चन्द्रमा (सारथिः) [दूसरा] सारथी [है] ॥२३॥
भावार्थभाषाः - मन्त्र २२ के समान ॥२३॥
टिप्पणी: २३−(संवत्सरः) अ० ६।५५।३। सम्+वस-सरन्। सम्यग् निवासकः कालः (रथः) यानभेदः (परिवत्सरः) अ० ६।५५।३। परि+वस-सरन् परितो निवासकोऽवकाशः (रथोपस्थः) रथे स्थितिस्थानम् (विराट्) वि+राजृ दीप्तौ-क्विप्। विराड् विराजनाद्वा विराधनाद्वा विप्रापणाद्वा-निरु० ७।१३। विविधं दीप्यमाना सृष्टिः (ईषा) अ० २।८।४। रथयुगदण्डः (अग्निः) पावकः (रथमुखम्) रथाग्रम् (इन्द्रः) सूर्यः (सव्यष्ठाः) सव्य+ष्ठा-विच्। स्थास्थिन्स्थृणामिति वक्तव्यम्। वा० पा० ८।३।९७। इति षत्वम्। वामस्थः सारथिः (चन्द्रमाः) अ० ५।२४।१०। चन्द्रलोकः (सारथिः) सर्तेर्णिच्च। उ० ४।८९। सृ गतौ णिच्-घथिन्, णेर्लोपो णित्वाद् वृद्धिः। रथचालकः ॥२३॥
