वांछित मन्त्र चुनें
72 बार पढ़ा गया

दिश॒श्चत॑स्रोऽश्वत॒र्यो देवर॒थस्य॑ पुरो॒डाशाः॑ श॒फा अ॒न्तरि॑क्षमु॒द्धिः। द्यावा॑पृथि॒वी पक्ष॑सी ऋ॒तवो॒ऽभीश॑वोऽन्तर्दे॒शाः किं॑करा वाक्परि॑रथ्यम् ॥

मन्त्र उच्चारण
पद पाठ

दिश: । चतस्र: । अश्वतर्य: । देवऽरथस्य । पुरोडाशा: । शफा: । अन्तरिक्षम् । उध्दि: । द्यावापृथिवी इति । पक्षसी इति । ऋतव: । अभीशव: । अन्त:ऽदेशा: । किम्ऽकरा: । वाक् । परिऽरथ्यम् ॥८.२२॥

अथर्ववेद » काण्ड:8» सूक्त:8» पर्यायः:0» मन्त्र:22


पण्डित क्षेमकरणदास त्रिवेदी

शत्रु के नाश का उपदेश।

पदार्थान्वयभाषाः - (देवरथस्य) विजय चाहनेवालों के रथ की (चतस्रः) चारों (दिशः) दिशाएँ (अश्वतर्यः) खच्चरी [हैं], (पुरोडाशाः) पूरी पूए (शफाः) खुर, (अन्तरिक्षम्) अन्तरिक्ष (उद्धिः) शरीर [बैठक]। (द्यावापृथिवी) सूर्य और पृथिवी (पक्षसी) दोनों पक्खे, (ऋतवः) ऋतुएँ (अभीशवः) बागडोरें, (अन्तर्देशः) अन्तर्दिशाएँ (किंकराः) सेवक लोग, (वाक्) वाणी (परिरथ्यम्) चक्र की पुट्ठी [वा हाल] है ॥२२॥
भावार्थभाषाः - सब प्रकार से सावधान सेनापति शत्रुओं पर पूरा विजय पाता है ॥२२॥
टिप्पणी: २२−(दिशः) प्राच्यादयः (चतस्रः) (अश्वतर्यः) वत्सोक्षाश्वर्षभेभ्यश्च तनुत्वे। पा० ५।३।९१। अश्व-ष्टरच्, ङीप्। खचर्यः (देवरथस्य) विजिगीषूणां युद्धयानस्य (पुरोडाशाः) पुरोऽग्रे दाश्यते दीयते। दाशृ दाने-घञ्। पक्कान्नविशेषाः (शफाः) खुराः (अन्तरिक्षम्) (उद्धिः) भुवः कित्। उ० २।११२। उन्दी क्लेदने-इसिन्, कित्, पृषोदरादिरूपं यथा ऊधः। शरीरम्। स्थितिस्थानम् (द्यावापृथिवी) सूर्यभूमी (पक्षसी) पक्ष परिग्रहे-असुन्। रथपार्श्वौ (ऋतवः) वसन्तादयः कालाः (अभीशवः) अ० ६।१३७।२। अश्वरश्मयः (अन्तर्देशाः) अन्तर्दिशाः (किंकराः) किंयत्तद्बहुषु कृञोऽज्विधानम्। वा० पा० ३।२।२१। किम्+डुकृञ् करणे-अच्। दासाः (वाक्) वाणी (परिरथ्यम्) रथस्येदम्। रथाद्यत्। पा० ४।३।१२१। रथ-यत्। रथचक्रपरिधिः ॥