वांछित मन्त्र चुनें
121 बार पढ़ा गया

सं क्रो॑शतामेना॒न्द्यावा॑पृथि॒वी सम॒न्तरि॑क्षं स॒ह दे॒वता॑भिः। मा ज्ञा॒तारं॒ मा प्र॑ति॒ष्ठां वि॑दन्त मि॒थो वि॑घ्ना॒ना उप॑ यन्तु मृ॒त्युम् ॥

मन्त्र उच्चारण
पद पाठ

सम् । क्रोशताम् । एनान् । द्यावापृथिवी इति । सम् । अन्तर‍िक्षम् । सह । देवताभि: । मा । ज्ञातारम् । मा । प्रतिऽस्थाम् । विदन्त । मिथ: । विऽघ्नाना: । उप । यन्तु । मृत्युम् ॥८.२१॥

अथर्ववेद » काण्ड:8» सूक्त:8» पर्यायः:0» मन्त्र:21


पण्डित क्षेमकरणदास त्रिवेदी

शत्रु के नाश का उपदेश।

पदार्थान्वयभाषाः - (द्यावापृथिवी) सूर्य और पृथिवी (एनान्) इनको (सम्) बल से (क्रोशताम्) पुकारें, (अन्तरिक्षम्) अन्तरिक्ष लोक (देवताभिः सह)) सब लोकों के साथ (सम्) बल से [पुकारे]। वे लोग (मा) न तो (ज्ञातारम्) जानकर पुरुष को और (मा) न (प्रतिष्ठाम्) प्रतिष्ठा [आश्रय वा आदर] (विदन्त) पावें, और (मिथः) आपस में (विघ्नानाः) मारते हुए (मृत्युम्) मृत्यु (उप यन्तु) पावें ॥२१॥
भावार्थभाषाः - युद्धकुशल सेनापति शत्रुदल में कोलाहल मचाकर शत्रुओं को सर्वथा निर्बल कर दे ॥२१॥ इस मन्त्र का उत्तर भाग आ चुका है-अ० ६।३२।३ ॥
टिप्पणी: २१−(सम्) सम्यक् बलात् (क्रोशताम्) आह्वयताम् (एनान्) शत्रून् (द्यावापृथिवी) सूर्यभूलोकौ (सम्) (अन्तरिक्षम्) मध्यलोकः (सह) (देवताभिः) गमनशीलैर्लोकैः (मा) निषेधे (ज्ञातारम्) परिचायकम् (प्रतिष्ठाम्) आश्रयम्। गौरवम् (मा विदन्त) मा प्राप्नुवन्तु (मिथः) परस्परम् (विघ्नानाः) ताच्छील्यवयोवचनशक्तिषु चानश्। पा० ३।२।१२९। हन्−चानश्। विनाशयन्तः (उप यन्तु) प्राप्नुवन्तु (मृत्युम्) मरणम् ॥