वांछित मन्त्र चुनें
135 बार पढ़ा गया

अव॑ पद्यन्तामेषा॒मायु॑धानि॒ मा श॑कन्प्रति॒धामिषु॑म्। अथै॑षां ब॒हु बिभ्य॑ता॒मिष॑वः घ्नन्तु॒ मर्म॑णि ॥

मन्त्र उच्चारण
पद पाठ

अव । पद्यन्ताम् । एषाम् । आयुधानि । मा । शकन् । प्रतिऽधाम् । इषुम् । अथ । एषाम् । बहु । बिभ्यताम् । इषव: । घ्नन्तु । मर्मणि ॥८.२०॥

अथर्ववेद » काण्ड:8» सूक्त:8» पर्यायः:0» मन्त्र:20


पण्डित क्षेमकरणदास त्रिवेदी

शत्रु के नाश का उपदेश।

पदार्थान्वयभाषाः - (एषाम्) इन के (आयुधानि) हथियार (अव पद्यन्ताम्) गिर पड़ें, वे लोग (इषुम्) बाण (प्रतिधाम्) रोपने को (मा शक्रन्) न समर्थ हों। (अथ) और (बहु) बहुत (बिभ्यताम्) डरे हुए (एषाम्) इन लोगों के (इषवः) बाण (मर्मणि) [उनके ही] मर्म स्थान में (घ्नन्तु) घाव करें ॥२०॥
भावार्थभाषाः - चतुर सेनापति बड़े बल और शीघ्रता से शत्रुओं पर धावा करे, जिससे वे लोग घबड़ा कर अपने हथियारों से अपने आपको मारें ॥२०॥
टिप्पणी: २०−(अव पद्यन्ताम्) अधः पतन्तु (एषाम्) शत्रूणाम् (आयुधानि) शस्त्राणि (मा शकन्) समर्था मा भूवन् (प्रतिधाम्) शकि णमुल्कमुलौ। पा० ३।४।१२। प्रतिधा-णमुल्। प्रतिधातुम्। आरोपितुम्। लक्ष्यीकर्त्तुम् (अथ) अपि च (एषाम्) (बहु) अधिकम् (बिभ्यताम्) शतृ प्रत्ययः। त्रसताम् (इषवः) बाणाः (घ्नन्तु) मारयन्तु (मर्मणि) मर्मस्थाने ॥