वांछित मन्त्र चुनें
86 बार पढ़ा गया

पू॑तिर॒ज्जुरु॑प॒ध्मानी॒ पूतिं॒ सेनां॑ कृणोत्व॒मूम्। धू॒मम॒ग्निं प॑रा॒दृश्या॒ऽमित्रा॑ हृ॒त्स्वा द॑धतां भ॒यम् ॥

मन्त्र उच्चारण
पद पाठ

पूतिऽरज्जु: । उपऽध्मानी । पूतिम् । सेनाम् । कृणोतु । अमूम् । धूमम् । अग्निम् । पराऽदृश्य । अमित्रा: । हृत्ऽसु । आ । दधताम् । भयम् ॥८.२॥

अथर्ववेद » काण्ड:8» सूक्त:8» पर्यायः:0» मन्त्र:2


पण्डित क्षेमकरणदास त्रिवेदी

शत्रु के नाश का उपदेश।

पदार्थान्वयभाषाः - (उपध्मानी) सुलगती हुई (पूतिरज्जुः) दुर्गन्ध उत्पन्न करनेवाली [शस्त्रों की ज्वाला] (अमूम् सेनाम्) उस सेना को (पूतिम्) दुर्गन्धित (कृणोतु) करे। (अमित्राः) शत्रु लोग (धूमम्) धुएँ और (अग्निम्) अग्नि को (परादृश्य) अत्यन्त देखकर (हृत्सु) हृदय में (भयम्) भय (आ दधताम्) धारण कर लेवें ॥२॥
भावार्थभाषाः - सेनापति के आग्नेय अस्त्रों की मार से शत्रु लोग श्वास घुट कर भाग जावें ॥२॥
टिप्पणी: २−(पूतिरज्जुः) सृजेरसुम् च। उ० १।१५। सृज विसर्जने-उ, धातोरसुमागमः, आदिसकारलोपश्च, ऋकारस्य यणादेशः, आगमसकारस्य जश्त्वं च। आद्यन्तविपर्ययो भवति स्तोका रज्जुः-निरु० २।१। दुर्गन्धस्य स्रष्ट्री। शस्त्रज्वाला (उपध्मानी) ध्मा शब्दाग्निसंयोगयोः-ल्युट्, ङीप्। प्रज्वलन्ती (पूतिम्) वसेस्तिः। उ० ४।१८०। पूयी विशरणे दुर्गन्धे च-ति प्रत्ययः, यद्वा क्तिच् प्रत्ययान्तः, यलोपः। दुर्गन्धवतीम् (सेनाम्) (कृणोति) करोतु (अमूम्) पुरोदृश्यमानाम् (धूमम्) शस्त्रधूमम् (अग्निम्) (परादृश्य) भृशं दृष्ट्वा (अमित्राः) पीडकाः (हृत्सु) हृदयेषु (आ दधताम्) समन्ताद् धरन्तु (भयम्) दरम् ॥