130 बार पढ़ा गया
मृ॒त्योराष॒मा प॑द्यन्तां॒ क्षुधं॑ से॒दिं व॒धं भ॒यम्। इन्द्र॑श्चाक्षुजा॒लाभ्यां॒ शर्व॒ सेना॑म॒मूं ह॑तम् ॥
पद पाठ
मृत्यो: । आषम् । आ । पद्यन्ताम् । क्षुधम् । सेदिम् । वधम् । भयम् । इन्द्र: । च । अक्षुऽजालाभ्याम् । शर्व । सेनाम् । अमूम् । हतम् ॥८.१८॥
अथर्ववेद » काण्ड:8» सूक्त:8» पर्यायः:0» मन्त्र:18
पण्डित क्षेमकरणदास त्रिवेदी
शत्रु के नाश का उपदेश।
पदार्थान्वयभाषाः - [वे लोग] (मृत्योः) मृत्यु के (आषम्) बन्धन, (क्षुधम्) भूख, (सेदिम्) महामारी, (वधम्) वध और (भयम्) भय (आ पद्यन्ताम्) प्राप्त करें। (इन्द्रः) हे प्राण वायु ! (च) और (शर्व) हे अपान वायु ! तुम दोनों (अक्षुजालाभ्याम्) बन्धन और जालों से (अमूम् सेनाम्) उस सेना को (हतम्) मारो ॥१८॥
भावार्थभाषाः - प्रतापी मनुष्य आत्मिक और शारीरिक बल से शत्रुओं को नाना क्लेश देकर नाश करे ॥१८॥
टिप्पणी: १८−(मृत्योः) मरणस्य (आषम्) अष दीप्तौ, ग्रहणे, गतौ च-घञ्। ग्रहणम्। बन्धनम् (आ) समन्तात् (पद्यन्ताम्) प्राप्नुवन्तु (क्षधम्) बुभुक्षाम् (सेदिम्) म० ९। महाविपत्तिम् (वधम्) घातनम् (भयम्) (इन्द्रः) हे प्राणवायो (च) (अक्षुजालाभ्याम्) अक्ष व्याप्तौ-उ। बन्धनपाशाभ्याम्। अन्यत्पूर्ववत्-म० १७ ॥
