वांछित मन्त्र चुनें
172 बार पढ़ा गया

अ॒ग्नेर्घा॒सो अ॒पां गर्भो॒ या रोह॑न्ति॒ पुन॑र्णवाः। ध्रु॒वाः स॒हस्र॑ना॒म्नीर्भे॑ष॒जीः स॒न्त्वाभृ॑ताः ॥

मन्त्र उच्चारण
पद पाठ

अग्ने: । घास: । अपाम्। गर्भ: । या: । रोहन्ति । पुन:ऽनवा: । ध्रुवा: । सहस्रऽनाम्नी: । भेषजी: । सन्तु । आऽभृता: ॥७.८॥

अथर्ववेद » काण्ड:8» सूक्त:7» पर्यायः:0» मन्त्र:8


पण्डित क्षेमकरणदास त्रिवेदी

रोग के विनाश का उपदेश।

पदार्थान्वयभाषाः - (अग्नेः) अग्नि का (घासः) भोजन [अग्नि बढ़ानेवाली] और (अपाम्) जलों का (गर्भः) गर्भ [जल से युक्त], (या) जो (पुनर्णवाः) वारंवार नवीन [ओषधियाँ] (रोहन्ति) उत्पन्न होती हैं। [वे] (ध्रुवाः) दृढ़ गुणवाली, (सहस्रनाम्नीः) सहस्रों नामवाली (आभृताः) यथावत् भरी हुई, (भेषजीः) भय जीतनेवाली [ओषधियाँ] (सन्तु) होवें ॥८॥
भावार्थभाषाः - मनुष्य अग्नि अर्थात् शरीरबल बढ़ानेवाली, रसीली, हरी उत्तम ओषधियों का उपयोग करें ॥८॥
टिप्पणी: ८−(अग्नेः) तापस्य। शरीरबलस्य (घासः) अ० ४।३८।७। भोजनम् (अपाम्) जलानाम् (गर्भः) आधारः (याः) ओषधयः (रोहन्ति) उद्भवन्ति (पुनर्णवाः) वारंवारं नवीनोत्पन्नाः (ध्रुवाः) दृढगुणाः (सहस्रनाम्नीः) बहुनामवत्यः (भेषजीः) भयजेत्र्यः। ओषधयः (सन्तु) (आभृताः) यथावत्पोषिताः ॥