जी॑व॒लां न॑घारि॒षां जी॑व॒न्तीमोष॑धीम॒हम्। अ॑रुन्ध॒तीमु॒न्नय॑न्तीं पु॒ष्पां मधु॑मतीमि॒ह हु॑वे॒ऽस्मा अ॑रि॒ष्टता॑तये ॥
पद पाठ
जीवलाम् । नघऽरिषाम् । जीवन्तीम् । ओषधीम् । अहम् । अरुन्धतीम् । उत्ऽनयन्तीम् । पुष्पाम् । मधुऽमतीम् । इह । हुवे । अस्मै । अरिष्टऽतातये ॥७.६॥
अथर्ववेद » काण्ड:8» सूक्त:7» पर्यायः:0» मन्त्र:6
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
रोग के विनाश का उपदेश।
पदार्थान्वयभाषाः - (जीवलाम्) जीवन देनेवाली, (नघारिषाम्) न कभी हानि करनेवाली, (जीवन्तीम्) जीव रखनेवाली, (अरुन्धतीम्) रोक न डालनेवाली, (उन्नयन्तीम्) उन्नति करनेवाली, (पुष्पाम्) बहुत पुष्पवाली, (मधुमतीम्) मधुर रसवाली (ओषधीम्) तापनाशक [अन्न आदि ओषधि] को (इह) यहाँ (अस्मै) इस [पुरुष] को (अरिष्टतातये) शुभ करने के लिये (अहम्) मैं (हुवे) बुलाता हूँ ॥६॥
भावार्थभाषाः - मनुष्यों को परीक्षणपूर्वक उत्तम-उत्तम पदार्थों का सेवन करना चाहिये ॥६॥ यह मन्त्र कुछ भेद से आ चुका है-अ० ८।२।६ ॥
टिप्पणी: ६−(अरुन्धतीम्) अ० ४।१२।१। अवारयित्रीम् (उन्नयन्तीम्) उन्नतिकरीम् (पुष्पाम्) अर्शआद्यच्, टाप्। बहुपुष्पवतीम् (मधुमतीम्) माधुर्योपेताम्। अन्यत्पूर्ववत्-अ० ८।२।६ ॥
