वांछित मन्त्र चुनें

याव॑तीना॒मोष॑धीनां॒ गावः॑ प्रा॒श्नन्त्य॒घ्न्या याव॑तीनामजा॒वयः॑। ताव॑ती॒स्तुभ्य॒मोष॑धीः॒ शर्म॒ यच्छ॒न्त्वाभृ॑ताः ॥

मन्त्र उच्चारण
पद पाठ

यावतीनाम् । ओषधीनाम् । गाव: । प्रऽअश्नन्ति । अघ्न्या: । यावतीनाम् । अजऽअवय: । तावती: । तुभ्यम् । ओषधी: । शर्म । यच्छन्तु । आऽभृता: ॥७.२५॥

अथर्ववेद » काण्ड:8» सूक्त:7» पर्यायः:0» मन्त्र:25


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

रोग के विनाश का उपदेश।

पदार्थान्वयभाषाः - (यावतीनाम्) जितनी (ओषधीनाम्) ओषधियों का (अघ्न्याः) न मारने योग्य (गावः) गौवें और (यावतीनाम्) जितनी [ओषधियों] का (अजावयः) भेड़ बकरी (प्राश्नन्ति) चारा करती हैं, (तावतीः) उतनी सब (आभृताः) यथावत् पुष्ट की हुई (ओषधीः) ओषधियाँ (तुभ्यम्) तुझ को (शर्म) सुख (यच्छन्तु) देवें ॥२५॥
भावार्थभाषाः - मन्त्र २३ के समान ॥२५॥
टिप्पणी: २५−(यावतीनाम्) यत्परिमाणानाम् (गावः) धेनवः (प्राश्नन्ति) प्राशनं कुर्वन्ति (अघ्न्याः) अ० ३।३०।१। अहन्तव्याः (अजावयः) अजाश्च अवयश्च ते। छागमेषादयः (तावतीः) तत्परिमाणाः (शर्म) सुखम् (यच्छन्तु) ददतु (आभृताः) सम्यक् पोषिताः। अन्यद् गतम् ॥