वांछित मन्त्र चुनें

तस्या॒मृत॑स्ये॒मं बलं॒ पुरु॑षं पाययामसि। अथो॑ कृणोमि भेष॒जं यथास॑च्छ॒तहा॑यनः ॥

मन्त्र उच्चारण
पद पाठ

तस्य । अमृतस्य । इमम्। बलम् । पुरुषम् । पाययामसि । अथो इति । कृणोमि । भेषजम् । यथा । असत् । शतऽहायन: ॥७.२२॥

अथर्ववेद » काण्ड:8» सूक्त:7» पर्यायः:0» मन्त्र:22


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

रोग के विनाश का उपदेश।

पदार्थान्वयभाषाः - (तस्य) उस (अमृतस्य) अमर [पुष्टिकारक मेघ] का (बलम्) बल [सार] (इमम् पुरुषम्) इस पुरुष को (पाययामसि) हम पिलाते हैं। (अथो) और (भेषजम्) चिकित्सा (कृणोमि) करता हूँ (यथा) जिससे वह (शतहायनः) सौ वर्षवाला (असत्) होवे ॥२२॥
भावार्थभाषाः - मनुष्य मेघ से उत्पन्न हुए पदार्थ अन्न आदि का सेवन करके पूरा जीवन भोगें ॥२२॥
टिप्पणी: २२−(तस्य) पूर्वोक्तस्य (अमृतस्य) अमरणस्य। पुष्टिकरस्य पर्जन्यस्य (इमम्) (बलम्) सारम् (पुरुषम्) प्राणिनम् (पाययामसि) पानेन पोषयामः (अथो) अपि च (कृणोमि) करोमि (भेषजम्) चिकित्साम् (यथा) येन प्रकारेण (असत्) भवेत् (शतहायनः) अ० ८।२।८। शतसंवत्सरायुर्युक्तः ॥