वांछित मन्त्र चुनें

याव॑तीः॒ किय॑तीश्चे॒माः पृ॑थि॒व्यामध्योष॑धीः। ता मा॑ सहस्रप॒र्ण्यो मृ॒त्योर्मु॑ञ्च॒न्त्वंह॑सः ॥

मन्त्र उच्चारण
पद पाठ

यावती: । कियती: । च । इमा: । पृथिव्याम् । अधि । ओषधी: । ता: । मा । सहस्रऽपर्ण्य: । मृत्यो: । मुञ्चन्तु । अंहस: ॥७.१३॥

अथर्ववेद » काण्ड:8» सूक्त:7» पर्यायः:0» मन्त्र:13


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

रोग के विनाश का उपदेश।

पदार्थान्वयभाषाः - (यावतीः) जितनी (च) और (कियतीः) कितनी [विविध परिमाण और गुणवाली] (इमाः) ये (ओषधीः) ओषधियाँ (पृथिव्याम् अधि) पृथिवी के ऊपर [हैं]। (सहस्रपर्ण्यः) सहस्रों पोषणवाली (ताः) वे सब (मा) मुझको (मृत्योः) मरण [आलस्य] से और (अंहसः) कष्ट से (मुञ्चन्तु) छुड़ावें ॥१३॥
भावार्थभाषाः - मनुष्य अन्न आदि ओषधियों द्वारा बल बढ़ाकर सुखी होवें ॥१३॥
टिप्पणी: १३−(यावतीः) यत्परिमाणयुक्ताः (कियतीः) बहुगुणोपेता इत्यर्थः (इमाः) (पृथिव्याम्) भूमौ (अधि) उपरि (ओषधीः) (ताः) (मा) माम् (सहस्रपर्ण्यः) धापॄवस्य०। उ० ३।६। पॄ पालनपूरणयोः-न प्रत्ययः। बहुपालनोपेताः (मृत्योः) मरणात्। आलस्यात् (मुञ्चन्तु) मोचयन्तु (अंहसः) आहननात् कष्टात् ॥