ये सूर्या॑त्परि॒सर्प॑न्ति स्नु॒षेव॒ श्वशु॑रा॒दधि॑। ब॒जश्च॒ तेषां॑ पि॒ङ्गश्च॒ हृद॒येऽधि॒ नि वि॑ध्यताम् ॥
पद पाठ
ये । सूर्यात् । परिऽसर्पन्ति । स्नुषाऽइव । श्वशुरात् । अधि । बज: । च । तेषाम् । पिङ्ग: । च । हृदये । अधि । नि । विध्यताम् ॥६.२४॥
अथर्ववेद » काण्ड:8» सूक्त:6» पर्यायः:0» मन्त्र:24
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
गर्भ की रक्षा का उपदेश।
पदार्थान्वयभाषाः - (ये) जो [उल्लू चोर आदि] (सूर्यात्) सूर्य से (अधि) अधिकारपूर्वक (परिसर्पन्ति) खिसक जाते हैं, (इव) जैसे (स्नुषा) पतोहू (श्वशुरात्) ससुर से। (बजः) बली (च) और (पिङ्गः) पराक्रमी [पुरुष] (च) भी (तेषाम्) उनके (हृदये) हृदय में (अधि) अधिकारपूर्वक (नि) निरन्तर (विध्यताम्) छेद डालें ॥२४॥
भावार्थभाषाः - बुद्धिमान् बलवान् पुरुष डरपोक चोर आदि और हिंसक जन्तुओं का नाश करें ॥२४॥
टिप्पणी: २४−(ये) चोरादयो हिंस्रजन्तवो वा (परिसर्पन्ति) पृथग् गच्छन्ति (स्नुषा) स्नुव्रश्चिकृत्यृषिभ्यः कित्। उ० ३।६६। ष्णु प्रस्रवणे-स प्रत्ययः, टाप्। स्नुषा साधुसादिनीति वा साधुसानिनीति वा स्वपत्यं तत्सनोतीति वा-निरु० १२।९। पुत्रवधूः (इव) यथा (श्वशुरात्) शावसेराप्तौ। उ० १।४४। शु+अशू व्याप्तौ-उरन्। आशु इति च शु इति च क्षिप्रनामनी भवतः-निरु० ६।१। शीघ्रव्याप्तव्यात् पतिजनकात् (अधि) अधिकृत्य (बजः) म० ३। बली पुरुषः (च) (तेषाम्) पूर्वोक्तानाम् (पिङ्गः) म० ६। पराक्रमी (च) अपि (हृदये) (अधि) अधिकृत्य (नि) निश्चयेन (विध्यताम्) ताडयताम् ॥
