वांछित मन्त्र चुनें

पवीन॒सात्त॑ङ्ग॒ल्वा॒ च्छाय॑कादु॒त नग्न॑कात्। प्र॒जायै॒ पत्ये॑ त्वा पि॒ङ्गः परि॑ पातु किमी॒दिनः॑ ॥

मन्त्र उच्चारण
पद पाठ

पविऽनसात् । तङ्गल्वात् । छायकात् । उत । नग्नकात् । प्रऽजायै । पत्ये । त्वा । पिङ्ग: । परि । पातु । किमीदिन: ॥६.२१॥

अथर्ववेद » काण्ड:8» सूक्त:6» पर्यायः:0» मन्त्र:21


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

गर्भ की रक्षा का उपदेश।

पदार्थान्वयभाषाः - (पवीनसात्) वज्र समान टेढ़े से, (तङ्गल्वात्) गति रोकनेवाले से, (छायकात्) काटनेवाले से (उत) और (नग्नकात्) नंगे करनेवाले (किमीदिनः) लुतरे पुरुष से (प्रजायै) प्रजा लिये और (पत्ये) पति के लिये (त्वा) तुझको (पिङ्गः) पराक्रमी पुरुष (परि पातु) सब ओर से बचावे ॥२१॥
भावार्थभाषाः - प्रतापी राजा कुकर्मी दुष्टों से स्त्रियों की रक्षा करे ॥२१॥
टिप्पणी: २१−(पवीनसात्) पविर्वज्रनाम-निघ० २।२०। सांहितिको दीर्घः। णस कौटिल्ये-अच्। वज्रवत्कुटिलात् (तङ्गल्वात्) अन्येष्वपि दृश्यन्ते। पा० ३।२।७५। तगि गतौ-विच्। कॄगॄशॄभ्यो वः। उ० १।१५५। अल वारणे-व। गतिनिवारकात् (छायकात्) छो छेदने-ण्वुल्। छेदकात् (उत) अपि च (नग्नकात्) अन्येष्वपि दृश्यते। पा० ३।२।१०१। नग्न+करोतेर्ड। नग्नकारकात् (प्रजायै) प्रजार्थम् (पत्ये) पतिरक्षार्थम् (त्वा) स्त्रियम् (पिङ्गः) म० ६। पराक्रमी पुरुषः (परि) सर्वतः (पातु) रक्षतु (किमीदिनः) अ० १।७।१। पिशुनात् ॥