वांछित मन्त्र चुनें

ये अ॒म्नो ज॒तान्मा॒रय॑न्ति॒ सूति॑का अनु॒शेर॑ते। स्त्रीभा॑गान्पि॒ङ्गो ग॑न्ध॒र्वान्वातो॑ अ॒भ्रमि॑वाजतु ॥

मन्त्र उच्चारण
पद पाठ

ये । अम्न: । जातान् । मारयन्ति । सूतिका: । अनुऽशेरते । स्त्रीऽभागान् । पिङ्ग: । गन्धर्वान् । वात: । अभ्रम्ऽइव । अजतु ॥६.१९॥

अथर्ववेद » काण्ड:8» सूक्त:6» पर्यायः:0» मन्त्र:19


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

गर्भ की रक्षा का उपदेश।

पदार्थान्वयभाषाः - (ये) जो (अम्नः) पीड़ा देनेवाले (जातान्) उत्पन्न बालकों को (मारयन्ति) मार डालते हैं और (सूतिकाः) सोहरवाली स्त्रियों को (अनुशेरते) अप्रिय करते हैं। (पिङ्गः) पराक्रमी पुरुष (स्त्रीभागान्) स्त्रियों के सेवन करनेवाले, (गन्धर्वान्) [उन] दुःखदायी पीड़ा देनेवालों को (अजतु) हटा देवे, (इव) जैसे (वातः) वायु (अभ्रम्) अभ्र [मेघ] को ॥१९॥
भावार्थभाषाः - जिन रोगों से बच्चे मर जाते हैं और स्त्रियों को प्रसूतिरोग हो जाते हैं, वैद्य उनको सर्वथा हटावे ॥१९॥
टिप्पणी: १९−(ये) (अम्नः) धापॄवस्य०। उ० ३।६। अम-पीडने-न प्रत्ययः, जसः सुः। अम्नाः पीडका रोगाः (जातान्) उत्पन्नान् बालकान् (मारयन्ति) विनाशयन्ति (सूतिकाः) षूङ् प्राणिप्रसवे-क्त, कन्, अत इत्वम्। नवप्रसूताः स्त्रीः (अनुशेरते) अनुपूर्वः शीङ् अनुशये, अत्यन्तद्वेषे। अत्यन्तं द्विषन्ति (स्त्रीभागान्) स्त्रीसेवनान् (पिङ्गः) म० ६। पराक्रमी पुरुषः (गन्धर्वान्) अ० २।१।२। गन्ध अर्दने-अच्+अर्व हिंसायाम्-अच्। शकन्ध्वादित्वात् पररूपम्। दुःखदायिनश्च ते पीडकाश्च ते तान् दुःखदायिपीडकान् (वातः) वायुः (अभ्रम्) अप्+भृ-क, यद्वा अभ्र गतौ-क। मेघम् (इव) (अजतु) क्षिपतु ॥