वांछित मन्त्र चुनें

उ॑द्ध॒र्षिणं॒ मुनि॑केशं ज॒म्भय॑न्तं मरी॒मृशम्। उ॒पेष॑न्तमुदु॒म्बलं॑ तु॒ण्डेल॑मु॒त शालु॑डम्। प॒दा प्र वि॑ध्य॒ पार्ष्ण्या॑ स्था॒लीं गौरि॑व स्पन्द॒ना ॥

मन्त्र उच्चारण
पद पाठ

उत्ऽहर्षिणम् । मुनिऽकेशम् । जम्भयन्तम् । मरीमृशम् । उपऽएषन्तम् । उदुम्बलम् । तुण्डेलम् । उत । शालुडम् । पदा । प्र । विध्य । पार्ष्ण्या । स्थालीम् । गौ:ऽइव । स्पन्दना ॥६.१७॥

अथर्ववेद » काण्ड:8» सूक्त:6» पर्यायः:0» मन्त्र:17


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

गर्भ की रक्षा का उपदेश।

पदार्थान्वयभाषाः - [हे राजन् !] (उद्धर्षिणम्) अति झूठ बोलनेवाले, (मुनिकेशम्) मुनियों के क्लेश देनेवाले, (जम्भयन्तम्) नाश करनेवाले, (मरीमृशम्) बरबस हाथ डालनेवाले, (उपेषन्तम्।) अधिक आने-जानेवाले, (उदुम्बलम्) मार-पीट का सेवन करनेवाले, (तुण्डेलम्) तोड़-फोड़ के करनेवाले, (उत) और (शालुडम्) घमण्डी को, (प्र विध्य) छेद डाल, (इव) जैसे (स्पन्दना) कूदनेवाली (गौः) गाय (पदा) लात से और (पार्ष्ण्या) एड़ी से (स्थालीम्) हाँडी को ॥१७॥
भावार्थभाषाः - राजा शिष्टों की रक्षा करके दुष्टों को सर्वथा दण्ड देता रहे ॥१७॥
टिप्पणी: १७−(उद्धर्षिणम्) उत्+हृषु अलीके मिथ्याकरणे-णिनि। अतिमिथ्यावादिनम् (मुनिकेशम्) मनेरुच्च। उ० ४।१२३। मन ज्ञाने-इन्, अस्य उकारः। क्लिशेरन् लो लोपश्च। उ० ५।३३। क्लिशू विबाधने-अन्, ललोपः। मुनीनां मननशीलानां विदुषां क्लेशकम् (जम्भयन्तम्) जभि नाशने-शतृ। नाशयन्तम् (मरीमृशम्) मृश स्पर्शे यङ्लुकि-अच्। रीगृदुपधस्य च। पा० ७।१।९०। इति रीक्। अत्यन्तस्पर्शकम् (उपेषन्तम्) जॄविशिभ्यां झच्। उ० १२६। उप अधिके+इष गतौ−झच्। एङि पररूपम्। पा० ६।१।९४। अधिकमेषन्तं गतिशीलम् (उदुम्बलम्) पॄभिदिव्यधि०। उ० १।२३। उड संहतौ संहनने, सौत्रो धातुः-कु। संज्ञायां भृतॄवृ०। पा० ३।२।४६। वृञ् वरणे-खच्, मुम् च। डस्य दः वस्य बः, रस्य लः। उडुंवरम्। संहननस्वीकर्तारम् (तुण्डेलम्) तुडि दारणे हिंसने च-अच्+इल प्रेरणे-क। हिंसाप्रेरकम् (उत) अपि च (शालुडम्) असेरुरन्। उ० १।४२। शाल कत्थने-उरन्, रस्य डः। आत्मश्लाघिनम् (पदा) पादेन (प्र) प्रकर्षेण (विध्य) ताडय (पार्ष्ण्या) अ० २।३३।५। गुल्फस्याधोभागेन (स्थालीम्) स्थाचतिमृजेरालज्०। उ० १।११६। ष्ठा गतिनिवृत्तौ-आलच्, गौरादित्वाद् ङीष्। पात्रम् (गौः) (इव) यथा (स्पन्दना) बहुलमन्यत्रापि। उ० २।७८। स्पदि किञ्चिच्चलने-युच्, टाप्। चलनशीला ॥