वांछित मन्त्र चुनें

ये सूर्यं॒ न तिति॑क्षन्त आ॒तप॑न्तम॒मुं दि॒वः। अ॒राया॑न्बस्तवा॒सिनो॑ दु॒र्गन्धीं॒ल्लोहि॑तास्या॒न्मक॑कान्नाशयामसि ॥

मन्त्र उच्चारण
पद पाठ

ये । सूर्यम् । न । तितिक्ष‍न्ते । आऽतपन्तम् । अमुम् । दिव: । अरायान् । बस्तऽवासिन: । दु:ऽगन्धीन् । लोहितऽआस्यान् । मककान् । नाशयामसि ॥६.१२॥

अथर्ववेद » काण्ड:8» सूक्त:6» पर्यायः:0» मन्त्र:12


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

गर्भ की रक्षा का उपदेश।

पदार्थान्वयभाषाः - (ये) जो [उल्लू आदि] (दिवः) आकाश से (आतपन्तम्) चमकते हुए (अमुम्) उस (सूर्यम्) सूर्य को (न) नहीं (तितिक्षन्ते) सहते हैं। (अरायान्) [उन] अलक्ष्मीवालों, (बस्तवासिनः) बकरे समान वस्त्रवालों, (दुर्गन्धीन्) दर्गन्धवालों, (लोहितास्यान्) रुधिर मुखवालों, (मककान्) टेढ़ी गतिवालों को (नाशयामसि) हम नष्ट करते हैं ॥१२॥
भावार्थभाषाः - मनुष्य उल्लू, चिमगादड़ आदि जन्तुओं को, जिनसे दुर्गन्ध फैलती है, हटावें ॥१२॥
टिप्पणी: १२−(ये) उलूकादयो जन्तवः (सूर्यम्) (न) निषेधे (तितिक्षन्ते) तिज क्षमायां स्वार्थे सन्। सहन्ते (आतपन्तम्) सर्वतो दीप्यमानम् (अमुम्) प्रसिद्धम् (दिवः) आकाशात् (अरायान्) अश्रीकान् (बस्तवासिनः) बस्त गतिहिंसायाचनेषु-घञ्, वस आच्छादने-घञ्, इनि। छाग इव वस्त्रोपेतान् (दुर्गन्धीन्) गन्धस्येदुत्पूतिसुसुरभिभ्यः। पा० ५।४।१३५। बाहुलकाद् गन्धस्य इकारादेशः। दुष्टगन्धोपेतान् (लोहितास्यान्) रुधिरोपेतमुखान् (मककान्) मकि भूषे गतौ च-अच्, नुमभावः। कुत्सिते। पा० ५।३।७४। क प्रत्ययः। कुत्सितगतीन् (नाशयामसि) ॥