वांछित मन्त्र चुनें

ये शालाः॑ परि॒नृत्य॑न्ति सा॒यं ग॑र्दभना॒दिनः॑। कु॒सूला॒ ये च॑ कुक्षि॒लाः क॑कु॒भाः क॒रुमाः॒ स्रिमाः॑। तानो॑षधे॒ त्वं ग॒न्धेन॑ विषू॒चीना॒न्वि ना॑शय ॥

मन्त्र उच्चारण
पद पाठ

ये । शाला: । परिऽनृत्यन्ति । सायम्। गर्दभऽनादिन: । कुसूला: । ये । च । कुक्षिला: । ककुभा: । करुमा: । स्त्रिमा: । तान् । ओषधे । त्वम् । गन्धेन । विषूचीनान् । वि । नाशय ॥६.१०॥ १४

अथर्ववेद » काण्ड:8» सूक्त:6» पर्यायः:0» मन्त्र:10


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

गर्भ की रक्षा का उपदेश।

पदार्थान्वयभाषाः - (ये) जो (गर्दभनादिनः) गधे समान नाद करनेवाले [कीड़े] (सायम्) सायंकाल में (शालाः) घरों के (परिनृत्यन्ति) आस-पास नाचते हैं। (च) और (ये) जो (कुसूलाः) चिपट जानेवाले [अथवा अन्न के कोठे के समान आकारवाले], (कुक्षिलाः) बड़े पेटवाले, (ककुभाः) शरीर में टेढ़े दिखाई देनेवाले, (करुमाः) मन को पीड़ा देनेवाले, (स्रिमाः) चलने फिरनेवाले [वा सुखानेवाले] हैं, (ओषधे) हे ओषधि ! [वैद्य] (त्वम्) तू (गन्धेन) गन्ध से (तान्) उन (विषूचीनान्) फैले हुए [कीड़ों] को (वि नाशय) विनष्ट कर दे ॥१०॥
भावार्थभाषाः - मनुष्य कस्तूरी, केशर, कपूर, अगर, तगर, आदि हव्य पदार्थों का अग्नि में होम करके रोगजनक क्रिमियों को घर से नाश करें ॥१०॥
टिप्पणी: १०−(ये) मशकादयः क्रमयः (शालाः) गृहाणि (परिनृत्यन्ति) परितो नृत्यन्ति (सायम्) दिनान्ते (गर्दभनादिनः) गर्दभसमानघोषयुक्ताः (कुसूलाः) खर्जिपिञ्जादिभ्य ऊरोलचौ। उ० ४।९०। कुस श्लेषे-ऊल। श्लेषणशीलाः। यद्वा, कुशूलाकृतयः, अन्नकोष्ठकाकाराः (ये) (च) (कुक्षिलाः) ष्लुषिकुषिशुषिभ्यः क्सिः। उ० ३।१५५। कुष निष्कर्षे−क्सि। प्राणिस्थादातो लजन्यतरस्याम्। पा० ५।२।९६। बाहुलकात् लच् मत्वर्थे। बृहत्कुक्षयः। महोदराः (ककुभाः) कप्रकरणे मूलविभुजादिभ्य उपसंख्यानम्। वा० पा० ३।२।५। क+कु+भा दीप्तौ-क। के देहे कु कुत्सितं भान्ति ये ते (करुमाः) कच दीप्तौ-ड। अविसिविशुषिभ्यः कित्। उ० १।१४४। रुङ् वधे-मन्, कित्। कं मनो रवन्ते ये। मनःपीडकाः (स्रिमाः) अविसिवि०। उ० १।१४४। स्रिवु गतिशोषणयोः-मन्, कित्। लोपो व्योर्वलि। पा० ६।१।६६। वलोपः। गतिशीलाः। शोषकाः (तान्) क्रमीन् (ओषधे) (त्वम्) (गन्धेन) हव्यद्रव्यगन्धेन (विषूचीनान्) अ० ३।७।१। विषु+अञ्चतेः-क्विन्, ख प्रत्ययः। सर्वतोगतीन् (विनाशय) ॥