वांछित मन्त्र चुनें
155 बार पढ़ा गया

तद॒ग्निरा॑ह॒ तदु॒ सोम॑ आह॒ बृह॒स्पतिः॑ सवि॒ता तदिन्द्रः॑। ते मे॑ दे॒वाः पु॒रोहि॑ताः प्र॒तीचीः॑ कृ॒त्याः प्र॑तिस॒रैर॑जन्तु ॥

मन्त्र उच्चारण
पद पाठ

तत् । अग्नि: । आह । तत् । ऊं इति । सोम: । आह । बृहस्पति: । सविता । तत् । इन्द्र: । ते । मे । देवा: । पुर:ऽहिता: । प्रतीची: । कृत्या: । प्रतिऽसरै: । अजन्तु ॥५.५॥

अथर्ववेद » काण्ड:8» सूक्त:5» पर्यायः:0» मन्त्र:5


पण्डित क्षेमकरणदास त्रिवेदी

हिंसा के नाश का उपदेश।

पदार्थान्वयभाषाः - (तत्) यह [पूर्वोक्त] (अग्निः) अग्नि [समान तेजस्वी पुरुष] (आह) कहता है, (तत् उ) यही (सोमः) चन्द्र [समान पोषक] (आह) कहता है, (तत्) वही (बृहस्पतिः) बड़ी विद्याओं का स्वामी, (सविता) सब का प्रेरक (इन्द्रः) प्रतापी पुरुष। (ते) वे (देवाः) व्यवहारकुशल (पुरोहिताः) पुरोहित [अग्रगामी पुरुष] (प्रतिसरैः) अग्रगामी पुरुषों सहित (मे) मेरे लिये (कृत्याः) हिंसाओं को (प्रतीचीः) प्रतिकूल गतिवाली करके (अजन्तु) हटावें ॥५॥
भावार्थभाषाः - विद्वान् पुरुष वेदविद्या का मान करते हैं और विद्वान् ही मनुष्यों को विघ्न से बचाते हैं ॥५॥
टिप्पणी: ५−(तत्) पूर्वोक्तम् (अग्निः) अग्निवत्तेजस्वी पुरुषः (आह) ब्रवीति (तदु) तदेव (सोमः) चन्द्रवत् पोषकः (आह) (बृहस्पतिः) बृहतीनां विद्यानां स्वामी (सविता) सर्वप्रेरकः (तत्) (इन्द्रः) प्रतापी जनः (ते) प्रसिद्धाः (मे) मह्यम् (देवाः) व्यवहारिणः (पुरोहिताः) अ० ३।१९।१। अग्रगामिनः पुरुषाः (प्रतीचीः) प्रतिकूलगतीः कृत्वा (कृत्याः) म० २। हिंसाः (प्रतिसरैः) अग्रेसरैः सह (अजन्तु) क्षिपन्तु ॥