वांछित मन्त्र चुनें

अ॒यं स्रा॒क्त्यो म॒णिः प्र॑तीव॒र्तः प्र॑तिस॒रः। ओज॑स्वान्विमृ॒धो व॒शी सो अ॒स्मान्पा॑तु स॒र्वतः॑ ॥

मन्त्र उच्चारण
पद पाठ

अयम् । स्राक्त्य: । मणि: । प्रतिऽवर्त: । प्रतिऽसर: । ओजस्वान् । विऽमृध: । वशी । स: । अस्मान् । पातु । सर्वत: ॥५.४॥

अथर्ववेद » काण्ड:8» सूक्त:5» पर्यायः:0» मन्त्र:4


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

हिंसा के नाश का उपदेश।

पदार्थान्वयभाषाः - (अयम्) यह [प्रसिद्ध वेदरूप] (मणिः) मणि [श्रेष्ठ नियम] (स्राक्त्यः) उद्यमशील, (प्रतीवर्त्तः) सब ओर घूमनेवाला और (प्रतिसरः) अग्रगामी है। (सः) वह (ओजस्वान्) महाबली, (विमृधः) बड़े हिंसकों को (वशी) वश में करनेवाला (अस्मान्) हमको (सर्वतः) सब ओर से (पातु) बचावे ॥४॥
भावार्थभाषाः - वेदानुगामी पुरुष बड़े ओजस्वी होकर शत्रुओं को वश में करके सब की रक्षा करते हैं ॥४॥
टिप्पणी: ४−(अयम्) म० १। (स्राक्त्यः) स्रक गतौ-क्तिन्, यत्। प्रति+वृतेर्घञ्। उपसर्गस्य घञ्यमनुष्ये बहुलम्। पा० ६।३।१२२। इति दीर्घः। प्रज्ञादिभ्यश्च। पा० ५।४।३८। स्वार्थेऽण्। स्राक्त्यः-अ० २।११।२। उद्यमशीलः (मणिः) म–० १। (प्रतीवर्तः) सर्वतोवर्तनः (प्रतिसरः) म० १ (ओजस्वान्) बलयुक्तः (विमृधः) अ० १।२१।१। विशेषेण हिंसकान् (वशी) वश-इनि। अकेनोर्भविष्यदाधमर्ण्ययोः। पा० २।३।७०। इति सकर्मकत्वम्। वशयिता (सः) (अस्मान्) धार्मिकान् (पातु) (सर्वतः) ॥