अ॒स्मै म॒णिं वर्म॑ बध्नन्तु दे॒वा इन्द्रो॒ विष्णुः॑ सवि॒ता रु॒द्रो अ॒ग्निः। प्र॒जाप॑तिः परमे॒ष्ठी वि॒राड्वै॑श्वान॒र ऋष॑यश्च॒ सर्वे॑ ॥
पद पाठ
अस्मै । मणिम् । वर्म । बध्नन्तु । देवा: । इन्द्र: । विष्णु: । सविता । रुद्र: । अग्नि: । प्रजाऽपति: । परमेऽस्थी । विऽराट् । वैश्वानर: । ऋषय: । च । सर्वे । ५.१०॥
अथर्ववेद » काण्ड:8» सूक्त:5» पर्यायः:0» मन्त्र:10
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
हिंसा के नाश का उपदेश।
पदार्थान्वयभाषाः - (देवाः) स्तुतियोग्य पुरुष, [अर्थात्] (इन्द्रः) बड़े ऐश्वर्यवाला (विष्णुः) कामों में व्याप्तिवाला [मन्त्री] (सविता) प्रेरणा करनेवाला [सेनापति], (रुद्रः) ज्ञानदाता (अग्निः) अग्नि [समान तेजस्वी आचार्य] (प्रजापतिः) प्रजापालक, (परमेष्ठी) अति श्रेष्ठ [मोक्ष] पद में रहनेवाला, (विराट्) अति प्रकाशमान, (वैश्वानरः) सब नरों का हितकारी परमेश्वर (च) और (सर्वे) सब (ऋषयः) ऋषि लोग (अस्मै) इस [शूर पुरुष] के (मणिम्) मणि [श्रेष्ठ नियमरूप] (वर्म) कवच (बध्नन्तु) बाँधें ॥१०॥
भावार्थभाषाः - पुरुषार्थी मनुष्य विद्वानों की सम्मति और परमात्मा के श्रेष्ठ नियमों में चलकर आनन्द पावें ॥१०॥
टिप्पणी: १०−(अस्मै) पुरुषार्थिने शूराय (मणिम्) श्रेष्ठनियमरूपम् (वर्म) कवचम् (बध्नन्तु) धारयन्तु (देवाः) स्तुत्याः पुरुषाः (इन्द्रः) परमैश्वर्यवान् (विष्णुः) कर्मसु व्यापको मन्त्री (सविता) प्रेरकः सेनापतिः (रुद्रः) अ० २।२७।६। ज्ञानदाता (अग्निः) अग्निवत्तेजस्वी आचार्यः (प्रजापतिः) प्रजापालकः (परमेष्ठी) अ० १।७।२। अतिश्रेष्ठे मोक्षपदे स्थितः (विराट्) अ० ४।११।७। विविधं प्रकाशमानः (वैश्वानरः) अ० १।१०।४। सर्वनरहितः परमेश्वरः (ऋषयः) अ० २।६।१। सन्मार्गदर्शकाः (सर्वे) समस्ताः ॥
