वांछित मन्त्र चुनें

इन्द्रा॑सोमा व॒र्तय॑तं दि॒वस्पर्य॑ग्नित॒प्तेभि॑र्यु॒वमश्म॑हन्मभिः। तपु॑र्वधेभिर॒जरे॑भिर॒त्त्रिणो॒ नि पर्शा॑ने विध्यतं॒ यन्तु॑ निस्व॒रम् ॥

मन्त्र उच्चारण
पद पाठ

इन्द्रासोमा । वर्तयतम् । दिव: । परि । अग्निऽतप्तेभि: । युवम् । अश्महन्मऽभि: । तपु:ऽवधेभि: । अजरेभि: । अत्त्रिण: । नि । पर्शाने । विध्यतम् । यन्तु । निऽस्वरम् ॥४.५॥

अथर्ववेद » काण्ड:8» सूक्त:4» पर्यायः:0» मन्त्र:5


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

हथियार बनाने का उपदेश।

पदार्थान्वयभाषाः - (इन्द्रासोमा) हे सूर्य और चन्द्र [समान राजा और मन्त्री !] (युवम्) तुम दोनों (दिवः) आकाश से (अग्नितप्तेभिः) अग्नि से तपाये हुए, (अश्महन्मभिः) मेघ के समान चलनेवाले [अथवा फैलनेवाले पदार्थों पत्थर, लोहे आदि से मार करनेवाले] (अजरेभिः) अजर [अटूट] (तपुर्वधेभिः) तपा देनेवाले हथियारों से (अत्त्रिणः) खाऊ लोगों को (परि वर्तयतम्) लुढ़कवा दो, (पर्शाने) गढ़े के बीच (नि विध्यतम्) छेद डालो, वे लोग (निस्वरम्) चुप्पी (यन्तु) प्राप्त करें ॥५॥
भावार्थभाषाः - सेनापति लोग वायुयानों में चढ़ कर आकाश से आग्नेय हथियारों द्वारा शत्रुओं को मार गिरावें ॥५॥
टिप्पणी: ५−(इन्द्रासोमा) म० १। (परिवर्तयतम्) वर्तनेन प्रेरयतम् (दिवः) आकाशात् (अग्नितप्तेभिः) अग्निना संतप्तैः (युवम्) युवाम् (अश्महन्मभिः) अशिशकिभ्यां छन्दसि। उ० ४।१४७। अशू व्याप्तौ संघाते च-मनिन्। अश्मा मेघः-निघ० १।१०। हन हिंसागत्योः-मनिन्। मेघवद् गमनशीलैः। यद्वा व्यापनशीलैः पदार्थैः पाषाणलोहादिभिर्मारयद्भिः (तपुर्वधेभिः) तापकैरायुधैः (अजरेभिः) अजीर्णैः। दृढैः (नि) नितराम् (पर्शाने) सम्यानच् स्तुवः। उ० २।८९। स्पृश स्पर्शने-आनच्। यद्वा, पर+शॄ हिंसायाम्-आनच्, स च डित्। पृषोदरादिरूपम्। पर्शानो मेघः−टिप्पणी, निघ० १।१०। गुहायाम्। गर्ते (विध्यतम्) ताडयतम् (यन्तु) प्राप्नुवन्तु ते शत्रवः (निस्वरम्) शब्दराहित्यम् ॥