वांछित मन्त्र चुनें
144 बार पढ़ा गया

इन्द्रा॑सोमा व॒र्तय॑तं दि॒वो व॒धं सं पृ॑थि॒व्या अ॒घशं॑साय॒ तर्ह॑णम्। उत्त॑क्षतं स्व॒र्यं पर्व॑तेभ्यो॒ येन॒ रक्षो॑ वावृधा॒नं नि॒जूर्व॑थः ॥

मन्त्र उच्चारण
पद पाठ

इन्द्रासोमा । वर्तयतम् । दिव: । वधम् । सम् । पृथिव्या: । अघऽशंसाय । तर्हणम् । उत् । तक्षतम् । स्वर्यम् । पर्वतेभ्य: । येन । रक्ष: । ववृधानम् । निऽजूर्वथ: ॥४.४॥

अथर्ववेद » काण्ड:8» सूक्त:4» पर्यायः:0» मन्त्र:4


पण्डित क्षेमकरणदास त्रिवेदी

हथियार बनाने का उपदेश।

पदार्थान्वयभाषाः - (इन्द्रासोमा) हे सूर्य और चन्द्र [समान राजा और मन्त्री !] तुम दोनों (दिवः) आकाश से और (पृथिव्याः) पृथिवी से (वधम्) मारू हथियार (सम् वर्तयतम्) लुढ़कवाओ, [जिससे] (अघशंसाय) बुरा चीतनेवाले के लिये (तर्हणम्) मरण [होवे]। ((स्वर्यम्) धड़ाकेवाला वा तपा देनेवाला [हथियार] (पर्वतेभ्यः) पहाड़ों से (उत् तक्षतम्) ढलवाओ, (येन) जिस से (वावृधानम्) बढ़ते हुए (रक्षः) राक्षस को (निजूर्वथः) तुम दोनों मार गिराओ ॥४॥
भावार्थभाषाः - राजा और मन्त्री ऐसे-ऐसे हथियार बनवायें, जिनके द्वारा शत्रुओं को आकाश, भूमि, पहाड़ों और गढ़ की भीतों आदि से मार सकें ॥४॥
टिप्पणी: ४−(इन्द्रासोमा) म० १। (वर्तयतम्) वर्तनेन प्रेरयतम् (दिवः) आकाशात् (वधम्) हननसाधनमायुधम् (सम्) सम्यक् (पृथिव्याः) भूमेः सकाशात् (अघशंसाय) अनिष्टचिन्तकाय (तर्हणम्) बृह हिंसायाम्-ल्युट्। मरणम् (उत्) उत्कर्षेण (तक्षतम्) तनूकुरुतम् (स्वर्यम्) अ० २।५।६। स्वृ शब्दोपतापयोः। शब्दकारकं प्रतापकं वा युधम् (पर्वतेभ्यः) शैलेभ्यः। दुर्गशिखरेभ्यः (येन) वधेन (रक्षः) राक्षसजातिम् (वावृधानम्) वर्धमानम् (निजूर्वथः) जुर्वी हिंसायाम्। निहथः ॥