मा नो॒ रक्षो॑ अ॒भि न॑ड्यातु॒माव॒दपो॑च्छन्तु मिथु॒ना ये कि॑मी॒दिनः॑। पृ॑थि॒वी नः॒ पार्थि॑वात्पा॒त्वंह॑सो॒ऽन्तरि॑क्षं दि॒व्यात्पा॑त्व॒स्मान् ॥
मा । न: । रक्ष: । अभि । नट् । यातुऽमावत् । अप । उच्छन्तु । मिथुना । ये । किमीदिन: । पृथिवी । न: । पार्थिवात् । पातु । अंहस: । अन्तरिक्षम् । दिव्यात् । पातु । अस्मान् ॥४.२३॥
पण्डित क्षेमकरणदास त्रिवेदी
राजा और मन्त्री के धर्म का उपदेश।
