वांछित मन्त्र चुनें

प॒रः सो अ॑स्तु त॒न्वा॒ तना॑ च ति॒स्रः पृ॑थि॒वीर॒धो अ॑स्तु॒ विश्वाः॑। प्रति॑ शुष्यतु॒ यशो॑ अस्य देवा॒ यो मा॒ दिवा॒ दिप्स॑ति॒ यश्च॒ नक्त॑म् ॥

मन्त्र उच्चारण
पद पाठ

पर: । स: । अस्तु । तन्वा । तना । च । तिस्र: । पृथिवी: । अध: । अस्तु । विश्वा: । प्रति । शुष्यतु । यश: । अस्य । देवा: । य: । मा । दिवा । दिप्सति । य: । च । नक्तम् ॥४.११॥

अथर्ववेद » काण्ड:8» सूक्त:4» पर्यायः:0» मन्त्र:11


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

राजा और मन्त्री के धर्म का उपदेश।

पदार्थान्वयभाषाः - (सः) वह [दुष्ट] (तन्वा) अपने शरीर से (च) और (तना) धन से (परः) परे (अस्तु) हो जावे और (विश्वाः) सब (तिस्रः) तीनों (पृथिवीः अधः) भूमियों [शारीरिक, आत्मिक और सामाजिक व्यवस्थाओं] से नीचे-नीचे (अस्तु) हो जावे। (देवाः) हे विद्वानो ! (अस्य) उसका (यशः) यश (प्रति शुष्यतु) सूख जावे, (यः) जो (मा) मुझे (दिवा) दिन में (च) और (यः) जो (नक्तम्) रात्रि में (दिप्सति) सताना चाहे ॥११॥
भावार्थभाषाः - जो मनुष्य प्रजा को दिन वा रात्रि में सतावे, उसको विद्वान् लोग सब प्रकार दण्ड देवें ॥११॥
टिप्पणी: ११−(परः) परस्तात्। दूरे (सः) शत्रुः (अस्तु) (तन्वा) (तना) म० १०। धनेन (च) (तिस्रः) त्रिप्रकाराः (पृथिवीः) भूमीः। शारीरिकात्मिकसामाजिकव्यवस्थाः (अधः) उभसर्वतसोः कार्या धिगुपर्यादिषु त्रिषु। द्वितीयाऽऽम्रेडितान्तेषु ततोऽन्यत्रापि दृश्यते। वा० पा० २।३।२। इत्यधसो योगे द्वितीया। अधोऽधः (अस्तु) (विश्वाः) व्याप्ताः सर्वाः (प्रति) प्रातिकूल्ये (शुष्यतु) शुष्कं भवतु (यशः) कीर्त्तिः (अस्य) पापिनः (देवाः) हे विद्वांसः। शूराः (यः) (मा) माम्। धार्मिकम् (दिवा) अहनि (दिप्सति) म० १०। हिंसितुमिच्छाति (यः) (च) (नक्तम्) रात्रौ ॥