वांछित मन्त्र चुनें

यो नो॒ रसं॒ दिप्स॑ति पि॒त्वो अ॑ग्ने॒ अश्वा॑नां॒ गवां॒ यस्त॒नूना॑म्। रि॒पु स्ते॒न स्ते॑य॒कृद्द॒भ्रमे॑तु॒ नि ष ही॑यतां त॒न्वा॒ तना॑ च ॥

मन्त्र उच्चारण
पद पाठ

य: । न: । रसम् । दिप्सति । प‍ित्व: । अग्ने । अश्वानम् । गवाम् । य: । तनूनाम् । रिपु: । स्तेन: । स्तेयऽकृत् । दभ्रम् । एतु । नि । स: । हीयताम् । तन्वा । तना । च ॥४.१०॥

अथर्ववेद » काण्ड:8» सूक्त:4» पर्यायः:0» मन्त्र:10


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

राजा और मन्त्री के धर्म का उपदेश।

पदार्थान्वयभाषाः - (अग्ने) हे अग्नि [समान तेजस्वी राजन् !] (यः) जो [दुष्ट] (नः) हमारे (पित्वः) रक्षासाधन अन्न आदि के और (यः) जो (अश्वानाम्) घोड़ों के और (गवाम्) गौओं के (तनूनाम्) शरीरों के (रसम्) रस [तत्त्व] को (दिप्सति) मिटाना चाहे। (स्तेनः) वह तस्कर, (स्तेयकृत्) चोरी करनेवाला (रिपुः) शत्रु (दभ्रम्) कष्ट को (एतु) प्राप्त हो और (सः) वह (तन्वा) अपने शरीर से (च) और (तना) धन से (नि) सर्वथा (हीयताम्) हीन हो जावे ॥१०॥
भावार्थभाषाः - राजा प्रजा की सम्पत्ति हरनेवाले डाकू चोर आदिकों को दण्ड देकर स्वाधीन रक्खे ॥१०॥
टिप्पणी: १०−(यः) (नः) अस्माकम् (रसम्) सारम् (दिप्सति) अ० ४।३६।१। दम्भितुं हिंसितुमिच्छति (पित्वः) अ० ४।६।३। पा रक्षणे−तु, यणादेशः। पितोः। रक्षासाधनस्यान्नादेः (अग्ने) अग्निवत्तेजस्विन् राजन् (अश्वानाम्) (गवाम्) (यः) (तनूनाम्) शरीराणाम् (रिपुः) रपेरिच्चोपधायाः। उ० १।२६। रप व्यक्तायां वाचि-कु, यद्वा रिफ कत्थनयुद्धनिन्दाहिंसादानेषु-कु, फस्य पः। शत्रुः (स्तेनः) चोरः (स्तेयकृत्) मोषकर्ता (दभ्रम्) स्फायितञ्चिवञ्चि०। उ० २।१३। दभि हिंसायाम्-रक्। हिंसाम् (एतु) प्राप्नोतु (नि) निश्चयेन (सः) (हीयताम्) हीनो भवतु (तन्वा) शरीरेण (तना) नन्दिग्रहिपचादिभ्यो०। पा० ३।१।१३४। तनु विस्तारे-अव। सुपां सुलुक्०। पा० ७।१।३९। विभक्तेराकारः। तनेन धनेन-निघ० २।१०। (च) ॥