वांछित मन्त्र चुनें

उ॒तार॑ब्धान्त्स्पृणुहि जातवेद उ॒तारे॑भा॒णाँ ऋ॒ष्टिभि॑र्यातु॒धाना॑न्। अग्ने॒ पूर्वो॒ नि ज॑हि॒ शोशु॑चान आ॒मादः॒ क्ष्विङ्का॒स्तम॑द॒न्त्वेनीः॑ ॥

मन्त्र उच्चारण
पद पाठ

उत । आऽरब्धान् । स्पृणुहि । जातऽवेद: । उत । आऽरेभाणान् । ऋष्टिऽभि: । यातुऽधानान् । अग्ने । पूर्व: । नि । जहि । शोशुचान: । आमऽअद: । क्ष्विङ्का: । तम् । अदन्तु । एनी: ॥३.७॥

अथर्ववेद » काण्ड:8» सूक्त:3» पर्यायः:0» मन्त्र:7


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

राजा के धर्म का उपदेश।

पदार्थान्वयभाषाः - (उत) और (जातवेदः) हे प्रसिद्धधनवाले राजन् ! (आरब्धान्) [शत्रुओं करके] पकड़े हुओं को (स्पृणुहि) पाल (उत) और (अग्ने) हे अग्नि [समान तेजस्वी राजन् !] (पूर्वः) सब से पहिले और (शोशुचानः) अति प्रकाशमान तू (आरेभाणान्) [हमें] पकड़नेवाले (यातुधानान्) दुःखदायियों को (ऋष्टिभिः) दो धारा तरवारों से (नि जहि) मार डाल, (आमादः) मांस खानेवाली (एनीः) चितकबरी, (क्ष्विङ्काः) अव्यक्त शब्द बोलनेवाली [चील आदि पक्षी] (तम्) हिंसक चोर को (अदन्तु) खा जावें ॥७॥
भावार्थभाषाः - राजा प्रजा के पालने और वैरियों के मारने में सदा उद्यत रहे ॥७॥
टिप्पणी: ७−(उत) अपि च (आरब्धान्) रभ उपक्रमे-क्त। शत्रुभिर्गृहीतान् (स्पृणुहि) स्पृ पालने। पालय (जातवेदः) हे प्रसिद्धधन राजन् (उत) (आरेभाणान्) रभ उपक्रमे-कानच्। अत एकहल्मध्येऽनादेशादेर्लिटि। पा० ६।४।१२०। अकारस्य एत्वम्, अभ्यासलोपश्च। ग्रहणशीलान् (ऋष्टिभिः) ऋषी गतौ-क्तिन्। उभयतो धारयुक्तैः खङ्गैः (यातुधानान्) पीडाप्रदान् (अग्ने) अग्निवत्तेजस्विन् राजन् (पूर्वः) अग्रगामी (नि) निरन्तरम् (जहि) मारय (शोशुचानः) अ० ४।११।३। भृशं दीप्यमानः (आमादः) मांसाशनाः (क्ष्विङ्काः) वातेर्डिच्च। उ० ४।१३४। ञिक्ष्विदा स्नेहमोचनयोः, अव्यक्त-शब्दे च-इण्, स च डित्। आतोऽनुपसर्गे कः। पा० ३।२।३। क्ष्वि+कै शब्दे-क। तत्पुरुषे कृति बहुलम्। पा० ६।३।१४। इत्यलुक्। चिल्लादिपक्षिणः (तम्) तर्द हिंसने-ड। हिंसकं चोरम् (अदन्तु) भक्षयन्तु (एनीः) अ० ६।८३।२। कुर्बुरवर्णाः ॥