यत्रे॒दानीं॒ पश्य॑सि जातवेद॒स्तिष्ठ॑न्तमग्न उ॒त वा॒ चर॑न्तम्। उ॒तान्तरि॑क्षे॒ पत॑न्तं यातु॒धानं॒ तमस्ता॑ विध्य॒ शर्वा॒ शिशा॑नः ॥
पद पाठ
यत्र । इदानीम् । पश्यसि । जातऽवेद: । तिष्ठन्तम् । अग्ने । उत । वा । चरन्तम् । उत । अन्तरिक्षे । पतन्तम् । यातुऽधानम् । तम । अस्ता । विध्य । शर्वा । शिशान: ॥३.५॥
अथर्ववेद » काण्ड:8» सूक्त:3» पर्यायः:0» मन्त्र:5
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
राजा के धर्म का उपदेश।
पदार्थान्वयभाषाः - (जातवेदः) हे प्रसिद्ध ज्ञानवाले ! (अग्ने) हे अग्नि [समान प्रतापी राजन् !] (यत्र) जहाँ कहीं (इदानीम्) अब (तिष्ठन्तम्) खड़े हुए, (उत) और (वा) अथवा (चरन्तम्) घूमते हुए (उत) और (अन्तरिक्षे) आकाश में [विमान आदि से] (पतन्तम्) उड़ते हुए (यातुधानम्) दुःखदायी जन को (पश्यसि) तू देखता है, (शिशानः) तीक्ष्णस्वभाव, (अस्ता) बाण चलानेवाला तू (शर्वा) बाण वा वज्र से (तम्) उसे (विध्य) वेध ले ॥५॥
भावार्थभाषाः - राजा पृथिवी, समुद्र और आकाश के उपद्रवियों का नाश करके प्रजा को पाले ॥५॥
टिप्पणी: ५−(यत्र) (इदानीम्) (पश्यसि) निरीक्षसे (जातवेदः) हे प्रसिद्धज्ञान (तिष्ठन्तम्) स्थितिं कुर्वन्तम् (अग्ने) अग्निवत्तेजस्विन् राजन् (उत) अपि (वा) अथवा (चरन्तम्) गच्छन्तम् (उत) (अन्तरिक्षे) आकाशे (पतन्तम्) उड्डीयमानम् (यातुधानम्) दुःखप्रदं जनम् (तम्) (अस्ता) बाणानां क्षेप्ता (विध्य) ताडय (शर्वा) शरुणा। बाणेन वज्रेण वा (शिशानः)-म० १। तीक्ष्णस्वभावः ॥
