अयो॑दंष्ट्रो अ॒र्चिषा॑ यातु॒धाना॒नुप॑ स्पृश जातवेदः॒ समि॑द्धः। आ जि॒ह्वया॒ मूर॑देवान्रभस्व क्र॒व्यादो॑ वृ॒ष्ट्वापि॑ धत्स्वा॒सन् ॥
पद पाठ
अय:ऽदंष्ट्र: । अर्चिषा । यातुऽधानान् । उप । स्पृश । जातऽवेद: । सम्ऽइध्द: । आ । जिह्वया । मूरऽदेवान् । रभस्व । क्रव्यऽअद: । वृष्ट्वा । अपि । धत्स्व । आसन् ॥३.२॥
अथर्ववेद » काण्ड:8» सूक्त:3» पर्यायः:0» मन्त्र:2
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
राजा के धर्म का उपदेश।
पदार्थान्वयभाषाः - (जातवेदः) प्रसिद्ध ज्ञानवाले [राजन् !] (अयोदंष्ट्रः) लोहसमान दाँतवाला [पुष्टाङ्ग], (समिद्धः) प्रकाशमान तू (अर्चिषा) [अपने] तेज से (यातुधानान्) दुःखदायी जीवों को (उप स्पृश) पाँवों से कुचल। (जिह्वया) [अपनी] जय शक्ति से (मूरदेवान्) मूढ़ [बुद्धिहीन] व्यवहारवालों को (आ रभस्व) पकड़ ले, और (वृष्ट्वा) पराक्रमी होकर तू (क्रव्यादः) मांस खानेवालों को (आसन्) [फेंकने के स्थान] कारागार में (अपिधत्स्व) बन्द कर दे ॥२॥
भावार्थभाषाः - नीतिमान्, बलवान् राजा दुष्टों को दण्ड देकर प्रजापालन करे ॥२॥
टिप्पणी: २−(अयोदंष्ट्रः) लोहवद्दन्तोपेतः (अर्चिषा) स्वतेजसा (यातुधानान्) पीडाप्रदान् पुरुषान् (उप स्पृश) उपपूर्वकः स्पृश पादैर्मर्दने। पादैश्चूर्णीकुरु (जातवेदः) हे प्रसिद्धप्रज्ञ (समिद्धः) प्रकाशितः (जिह्वया) शेवायह्वजिह्वा०। उ० १।१५४। जि जये-वन्, धोतोर्हुक्। जयशक्त्या (मूरदेवान्) रस्य ढः। दिवु व्यवहारे-अच्। मूरा अमूर न वयम्... मूढा वयं स्मऽमूढस्त्वमसि-निरु० ६।८। मूढव्यवहारान्। मन्दबुद्धिव्यवहारयुक्तान् (आ रभस्व) सम्यग् गृहाण (क्रव्यादः) मांसभक्षकान् (वृष्ट्वा) वृष शक्तिबन्धने पराक्रमे च। पराक्रमी भूत्वा (अपि धत्स्व) बधान (आसन्) अस्यते क्षिप्यतेऽत्र आस्यम्। असु क्षेपणे-ण्यत्। पद्दन्नोमास्० पा० ६।१।६३। आसन् आदेशः। आस्नि। क्षेपणस्थाने। कारागारे ॥
