143 बार पढ़ा गया
अ॒स्मै मृ॑त्यो॒ अधि॑ ब्रूही॒मं द॑य॒स्वोदि॒तो॒ऽयमे॑तु। अरि॑ष्टः॒ सर्वा॑ङ्गः सु॒श्रुज्ज॒रसा॑ श॒तहा॑यन आ॒त्मना॒ भुज॑मश्नुताम् ॥
पद पाठ
अस्मै । मृत्यो इति । अधि । ब्रूहि । इमम् । दयस्व । उत् । इत: । अयम् । एतु । अरिष्ट: । सर्वऽअङ्ग: । सुऽश्रुत् । जरसा । शतऽहायन: । आत्मना । भुजम् । अश्नुताम् ॥२.८॥
अथर्ववेद » काण्ड:8» सूक्त:2» पर्यायः:0» मन्त्र:8
पण्डित क्षेमकरणदास त्रिवेदी
कल्याण की प्राप्ति का उपदेश।
पदार्थान्वयभाषाः - (मृत्यो) हे मृत्यु (अस्मै) इस [मनुष्य] को (अधि ब्रूहि) ढाढ़स दे, (इमम्) इस पर (दयस्व) दया कर, (अयम्) यह [मनुष्य] (उत् इतः=उदितः) उदय होता हुआ (एतु) चले। (अरिष्टः) निर्हानि, (सर्वाङ्गः) पूरे अङ्गोंवाला, (सुश्रुत्) भली-भाँति सुननेवाला, (जरसा) स्तुति के साथ (शतहायनः) सौ वर्षोंवाला होकर (आत्मना) आत्मबल से (भुजम्) पालनसामर्थ्य (अश्नुताम्) प्राप्त करे ॥८॥
भावार्थभाषाः - जो मनुष्य विपत्तियों में ढाढ़स बाँधकर आगे बढ़ते जाते हैं, वे आत्मावलम्बी [सूर्य के समान अन्धकार से] उदय होकर पूरा सुख भोगते हैं ॥८॥
टिप्पणी: ८−(अस्मै) मनुष्याय (मृत्यो) (अधि) अनुग्रहेण (ब्रूहि) वद (इमम्) मनुष्यम् (दयस्व) दय पालने। दयां कुरु (उदितः) उद्गतः। उन्नतः (अयम्) मनुष्यः (एतु) गच्छतु (अरिष्टः) निर्हानिः (सर्वाङ्गः) पूर्णशरीरावयवः (सुश्रुत्) सुष्ठु श्रोता (जरसा) अ० १।३०।२। स्तुत्या (शतहायनः) शतसंवत्सरायुर्युक्तः (आत्मनः) स्वावलम्बनेन (भुजम्) भुज पालने-क। पालनसामर्थ्यम् (अश्नुताम्) प्राप्नोतु ॥
