जी॑व॒लां न॑घारि॒षां जी॑व॒न्तीमोष॑धीम॒हम्। त्रा॑यमा॒णां सह॑मानां॒ सह॑स्वतीमि॒ह हु॑वे॒ऽस्मा अ॑रि॒ष्टता॑तये ॥
पद पाठ
जीवलाम् । नघऽरिषाम् । जीवन्तीम् । ओषधीम् । अहम् । त्रायमाणाम् । सहमानाम् । सहस्वतीम् । इह । हुवे । अस्मै । अरिष्टऽतातये ॥२.६॥
अथर्ववेद » काण्ड:8» सूक्त:2» पर्यायः:0» मन्त्र:6
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
कल्याण की प्राप्ति का उपदेश।
पदार्थान्वयभाषाः - (जीवलाम्) जीवन देनेवाली, (नघारिषाम्) न कभी हानि करनेवाली, (जीवन्तीम्) जीव रखनेवाली, (त्रायमाणाम्) रक्षा करनेवाली, (सहमानाम्) [रोग] दबा लेनेवाली, (सहस्वतीम्) बलवाली (ओषधीम्) ओषधि [समान वेदविद्या] को (इह) यहाँ [आत्मा में] (अस्मै) इस [पुरुष] को (अरिष्टतातये) शुभ करने के लिये (अहम्) मैं (हुवे) बुलाता हूँ ॥६॥
भावार्थभाषाः - जो मनुष्य ओषधिसमान वेदविद्या का सेवन करते हैं, वे शुभ भोगते हैं ॥६॥
टिप्पणी: ६−(जीवलाम्) जीव+ला दाने-क, टाप्। जीवप्रदाम् (नघारिषाम्) स घा वीरो न रिष्यति-ऋक्० १।१८।४। एवमत्र (न) निषेधे (घ) अवधारणे, सांहितिको दीर्घः, रिष हिंसायाम्-क, टाप्। नैव हिंसाशीलाम् (जीवन्तीम्) रुहिनन्दिजीविप्राणिभ्यः षिदाशिषि। उ० ३।१२७। जीव प्राणधारणे-झच्, षित्त्वात् ङीष्। प्राणधारिकाम्। अशुष्काम् (ओषधीम्) भेषजम् (त्रायमाणाम्) रक्षन्तीम् (सहमानाम्) रोगस्याभिभवित्रीम् (सहस्वतीम्) बलवतीम् (इह) आत्मनि (हुवे) आह्वयामि (अस्मै) जीवहिताय (अरिष्टतातये) अ० ३।५।५। शुभकरणाय ॥
