वाता॑त्ते प्रा॒णम॑विदं॒ सूर्या॒च्चक्षु॑र॒हं तव॑। यत्ते॒ मन॒स्त्वयि॒ तद्धा॑रयामि॒ सं वि॒त्स्वाङ्गै॒र्वद॑ जि॒ह्वयाल॑पन् ॥
पद पाठ
वातात् । ते । प्राणम् । अविदम् । सूर्यात् । चक्षु: । अहम् । तव । यत् । ते । मन: । त्वयि । तत् । धारयामि । सम् । वित्स्व । अङ्गै: । वद । जिह्वया । अलपन् ॥२.३॥
अथर्ववेद » काण्ड:8» सूक्त:2» पर्यायः:0» मन्त्र:3
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
कल्याण की प्राप्ति का उपदेश।
पदार्थान्वयभाषाः - [हे मनुष्य !] (वातात्) वायु से (ते) तेरे (प्राणम्) प्राण को और (सूर्यात्) सूर्य से (तव) तेरी (चक्षुः) दृष्टि (अहम्) मैंने (अविदम्) पायी है। (यत्) जो (ते) तेरा (मनः) मन है, (तत्) उस को (त्वयि) तुझ में (धारयामि) स्थापित करता हूँ, (अङ्गैः) [शास्त्र के] सब अङ्गों से (सम् वित्स्व) यथावत् जान, (जिह्वया) जीभ से (अलपन्) बकवाद न करता हुआ (वद) बोल ॥३॥
भावार्थभाषाः - जैसे वायु से प्राण और सूर्य से दृष्टि स्थिर रहती है, वैसे ही मनुष्य आत्मा में मन को निश्चल करके पदार्थों के तत्त्व को साक्षात् करके सारांश का उपदेश करे ॥३॥
टिप्पणी: ३−(वातात्) वायुसकाशात् (ते) तव (प्राणम्) जीवनम् (अविदम्) लब्धवानस्मि (सूर्यात्) आदित्यात् (चक्षुः) दृष्टिम् (अहम्) प्राणी (तव) (यत्) (ते) तव (मनः) अन्तःकरणम् (त्वयि) तवात्मनि (तत्) मनः (धारयामि) स्थापयामि (सम् वित्स्व) समो गम्यृच्छिप्रच्छिस्वरत्यर्तिश्रुविदिभ्यः। पा० १।३।२९। सं पूर्वाद् विद ज्ञाने आत्मनेपदम्। सम्यग् ज्ञानं प्राप्नुहि (अङ्गैः) शास्त्राङ्गैः (वद) उदीरय (जिह्वया) रसनया (अलपन्) लपनं प्रलापमनर्थकथनमकुर्वन् ॥
