वांछित मन्त्र चुनें

अह्ने॑ च त्वा॒ रात्र॑ये चो॒भाभ्यां॒ परि॑ दद्मसि। अ॒राये॑भ्यो जिघ॒त्सुभ्य॑ इ॒मं मे॒ परि॑ रक्षत ॥

मन्त्र उच्चारण
पद पाठ

अह्ने । च । त्वा । रात्रये । च । उभाभ्याम् । परि । दद्मसि । अरायेभ्य: । जिघत्सुऽभ्य: । इमम् । मे । परि । रक्षत ॥२.२०॥

अथर्ववेद » काण्ड:8» सूक्त:2» पर्यायः:0» मन्त्र:20


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

कल्याण की प्राप्ति का उपदेश।

पदार्थान्वयभाषाः - (त्वा) तुझे (उभाभ्याम्) दोनों (अह्ने) दिन (च च) और (रात्रये) रात्रि को (परि दद्मसि) हम सौंपते हैं। (अरायेभ्यः) निर्दानी और (जिघत्सुभ्यः) खाना चाहनेवाले लोगों से (इमम्) इस [पुरुष] को (मे) मेरे लिये (परि) सब प्रकार (रक्षत) तुम बचाओ ॥२०॥
भावार्थभाषाः - मनुष्य प्रकाश अन्धकार और समय कुसमय का विचार करके शत्रुओं से परस्पर रक्षा करें ॥२०॥
टिप्पणी: २०−(अह्ने) दिनाय। प्रकाशकालाय (त्वा) त्वाम् (रात्रये) अन्धकारकालाय (च च) समुच्चये (उभाभ्याम्) द्वाभ्याम् (परि दद्मसि) समर्पयामः (अरायेभ्यः) रा दाने-घञ्। आतो युक् चिण्कृतोः। पा० ७।३।३३। इति युक्। अदातृभ्यः (जिघत्सुभ्यः) अद भक्षणे-सन्-उ प्रत्ययः। लुङ्सनोर्घस्लृ। पा० २।४।३७। अदेर्घस्लादेशे। एकाच उपदेशेऽनुदात्तात्। पा० ७।२।१०। इट्प्रतिषेधः। सः स्यार्धधातुके। पा० ७।४।४९। इति तत्वम्। भक्षणेच्छुकेभ्यः पुरुषेभ्यः (इमम्) पुरुषम् (मे) मह्यम् (परि) सर्वतः (रक्षत) पालयत ॥